मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५४, ऋक् ३

संहिता

अर्चा॑ दि॒वे बृ॑ह॒ते शू॒ष्यं१॒॑ वच॒ः स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मनः॑ ।
बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा॑ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ॥

पदपाठः

अर्च॑ । दि॒वे । बृ॒ह॒ते । शू॒ष्य॑म् । वचः॑ । स्वऽक्ष॑त्रम् । यस्य॑ । धृ॒ष॒तः । धृ॒षत् । मनः॑ ।
बृ॒हत्ऽश्र॑वाः । असु॑रः । ब॒र्हणा॑ । कृ॒तः । पु॒रः । हरि॑ऽभ्याम् । वृ॒ष॒भः । रथः॑ । हि । सः ॥

सायणभाष्यम्

हेस्तोतः दिवे दीप्ताय बृहते महते इंद्राय शूष्यम् । शूषमिति सुखनाम । तत्र साधु शूष्यम् । तादृशं स्तुति लक्षणं वचोऽर्च । उच्चारय । यस्येंद्रस्य धृषतः शत्रून्धर्षयतः । स्वक्षत्रं स्वभूतबलवन्मनो धृषत् धृष्वं भवति । हि षः स हि स खल्विंद्रो बृहच्छ्रवाः प्रभूतयशा असुरः शत्रूणां निरसिता । यद्वा । असुः प्राणो बलं वा । तद्वान् । रो मत्वर्थीयः । अथवा । असवः प्राणाः । तेन चापो लक्ष्यंते । प्राणा वा अपः । तै ब्रा ३-२-५-२ । इति श्रुतेः । तान्राति ददातीत्यसुरः । बर्हणा शत्रूणां निबर्हयिता हरिभ्यामश्विभ्यां पुरस्कृतः पूजितः वृषभः कामानां वर्षिता रथो रंहणशीलः ॥ शूष्यम् । तत्र साधुरिति यत् । सर्वे विधयश्छंदसि विकल्प्यंत इति यतोऽनाव इत्याद्युदात्तत्वाभावे तित्स्वरितं इति स्वरितत्वम् । धृषतः । ञिधृषा प्रागल्भ्ये । व्यत्ययेन शः । शतुरनुम इति विभक्तेरुदात्तत्वम् । बृहच्छ्रवाः । बृहच्छ्रवो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । असुरः । असु क्षेपणे । असेरुरन् (उ १-४३) इत्युरन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । बर्हणा । सुपां सुलुगिति विभक्तेराकाराः । पुरः । पूर्वाधरेत्यादिनासिप्रत्ययांतोदात्तः ॥ ३ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७