मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५४, ऋक् ५

संहिता

नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद्व्र॒न्दिनो॒ रोरु॑व॒द्वना॑ ।
प्रा॒चीने॑न॒ मन॑सा ब॒र्हणा॑वता॒ यद॒द्या चि॑त्कृ॒णव॒ः कस्त्वा॒ परि॑ ॥

पदपाठः

नि । यत् । वृ॒णक्षि॑ । श्व॒स॒नस्य॑ । मू॒र्धनि॑ । शुष्ण॑स्य । चि॒त् । व्र॒न्दिनः॑ । रोरु॑वत् । वना॑ ।
प्रा॒चीने॑न । मन॑सा । ब॒र्हणा॑ऽवता । यत् । अ॒द्य । चि॒त् । कृ॒णवः॑ । कः । त्वा॒ । परि॑ ॥

सायणभाष्यम्

हे इंद्र त्वं रोरुवत् मेघैरत्यर्थं शब्दयन् श्वसनस्य । अंतरिक्षे श्वसितीति श्वसनो वायुः । तस्य व्रंदिनः स्वकिरणैराम्रफलादीन्मृदुभावं प्रापयतः शुष्णस्य चित् रसानां शोषयतुरादित्यस्यापि मूर्धन्युपरिप्रदेशे वना वानान्युदकानि यद्यस्मान्निवृणक्षि आवर्जयसि । प्रापयसीत्यर्थः । वायुना सूर्यकिरणैश्च वृष्वा आपः सूर्यस्योपरि पुनरवस्थाप्यंते । तदेवावस्थापनमिंद्रः करोतीत्युपचर्यते । प्राचीनेन प्रकर्षेण गंत्रा । अपराङ्मुखेनेत्यर्थः । बर्हणावता । निबर्हयतीति वधकर्मसु । पाठाद्बर्हणा शत्रूणां हिंसा । तद्वता । एवंभूतेन मनसा युक्तस्त्वं यद्यस्मादद्याचिदद्यापि कृणवः । घर्मकाले सूर्यस्योपरि भौमान् रसान वस्थापयसि वर्षासु च वर्षयसीति । यस्मादेतत्कुरुषे तस्मात्काराणात्त्वा त्वां पर्युपरि को वर्तते न कोऽपीत्यर्थः । अतस्त्वमेव सर्वाधिक इति भावः ॥ वृणक्षि । वृजी वर्जने । रौधाधिकः । सिपः पित्वादनुदात्तत्वे विकरणस्वरः । यद्वृत्तयोगादनिघातः । प्राचीनेन । प्रपूर्वादंचतेर्ऋत्विगित्यादिना र्क्वि । अनिदितामिति नलोपः । विभाषांचेरदिक्स्त्रयामिति स्वार्थे खः । खस्येनादेशः । अच इत्यकारलोपे चाविति दीर्घत्वम् । खप्रत्ययस्य सति शिष्टत्वात्तदादेशस्योपदेशिवद्भावे नेकार उदात्तः । आद्या चित् । निपातस्य चेति दीर्घत्वम् । कृणवः । कृवि हिंसाकरणयोश्च । इदित्वान्नुम् । लेट सिप्यडागमः । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । वकारस्याकारादेशश्च । तस्यातो लोपे सति स्थानिवद्भावाल्लघूपधगुणाभावः । गुणावादेशौ । आगमानुदात्तत्वे विकरणस्वरः । अत्र निरुक्तम् । व्रंदी व्रंदतेर्मृदूभावकर्मणः । निवृणक्षि यच्छ्वसनस्य मूर्धनि शब्द कारिणः शुष्ण स्यादित्यस्य च शोषयितू रोरूय माणो वनानीति वा धनानीति वा । निरु ५-१६ । इति । धनानीति पक्षे मेघस्य धनानीति व्याख्येयं ॥ ५ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७