मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५४, ऋक् १०

संहिता

अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒ तमो॒ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे॑षु॒ पर्व॑तः ।
अ॒भीमिन्द्रो॑ न॒द्यो॑ व॒व्रिणा॑ हि॒ता विश्वा॑ अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ॥

पदपाठः

अ॒पाम् । अ॒ति॒ष्ठ॒त् । ध॒रुण॑ऽह्वरम् । तमः॑ । अ॒न्तः । वृ॒त्रस्य॑ । ज॒ठरे॑षु । पर्व॑तः ।
अ॒भि । ई॒म् । इन्द्रः॑ । न॒द्यः॑ । व॒व्रिणा॑ । हि॒ताः । विश्वाः॑ । अ॒नु॒ऽस्थाः । प्र॒व॒णेषु॑ । जि॒घ्न॒ते॒ ॥

सायणभाष्यम्

अपां वृष्ण्युदकानां धरुणह्वरम् । धरुणशब्दो धारावाचनः । धारानिरोधकं तमोऽंधकारमतिष्ठत् । अयमेवार्थः स्पष्वीक्रियते । वृत्रस्य लोकत्रयावरितुरसुरस्य जठरेषूदरप्रदेशेष्वंतर्मध्ये पर्वतः पर्ववान्मेघोऽभूत् । अतस्तमोरूपेण वृत्रेण मेघस्यावृतत्वाद्वृष्ण्युदकमप्यावृतमित्युच्यते । ईमिमाः पूर्वोक्ता नद्यो नदीरपः । सदनान्नद्य इति व्युत्पत्त्या नदीशब्देनाप उच्यंते । वव्रिणावरकेण वृत्रेण हिताः पिहिता विश्वा व्यापानीरनुष्ठा अनुक्रमेण तिष्ठंतीः । एवं विधा अप इंद्रः प्रवणेषु निम्नेषु भूप्रदेशेष्वभिजिघ्नते अभिगमयति ॥ वव्रिणा । व्रञ् वरण इत्यस्मादादृगमहनजन इति किप्रत्ययः । लिड्वद्भााद्द्विर्भावादि । यणादेशः । प्रत्ययस्वरः । अनुष्ठाः । आतश्चोपसर्ग इति तिष्ठतेः कप्रत्ययः । उपसर्गात्सुनोतीति षत्वम् । जिघ्नते । हंतेर्गत्यर्थाद्व्यत्ययेनात्मनेपदम् । बहुलं छंदसीति शपः श्लुः । अर्तिपिपर्त्योश्च बहुलं छंदसीत्यभ्यासस्येत्वं ॥ १० ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८