मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५५, ऋक् २

संहिता

सो अ॑र्ण॒वो न न॒द्य॑ः समु॒द्रिय॒ः प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी॑मभिः ।
इन्द्र॒ः सोम॑स्य पी॒तये॑ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ॥

पदपाठः

सः । अ॒र्ण॒वः । न । न॒द्यः॑ । स॒मु॒द्रियः॑ । प्रति॑ । गृ॒भ्णा॒ति॒ । विऽश्रि॑ताः । वरी॑मऽभिः ।
इन्द्रः॑ । सोम॑स्य । पी॒तये॑ । वृ॒ष॒ऽय॒ते॒ । स॒नात् । सः । यु॒ध्मः । ओज॑सा । प॒न॒स्य॒ते॒ ॥

सायणभाष्यम्

स इंद्रः समुद्रियः । समुद्दवंत्यस्मादाप इति समुद्रमंतरिक्षम् । तत्र भवः समुद्रियः । एवंभूतः सन् वरीमभिः स्वकीयैः संवरणैर्यद्वोरुत्वैर्विश्रिता व्याप्ता नद्यो नदीः शब्दकारणीर्वृत्रेणावृता आपोऽर्णवो न समुद्र इव प्रति गृभ्णाति । स्वीकृत्य ववर्षेति भावः । सचेंद्रः सोमस्य पीतये पानाय वृषायते वृष इवाचरति । हर्षयुक्तो वर्तत इत्यर्थः । तथा स इंद्रो युध्मो योध्धां सनाच्चिरादेव यद्वा सनातन ओजसा बलकृतेन वृत्रवधादिरूपेण कर्मणा पनस्यते पनः स्तोत्रमिच्छति ॥ अर्णवः । अर्णसो लोपश्च । का ५-२-१०९-३ । मत्वर्थी यो वप्रत्ययः सलोपश्च । प्रत्ययस्वरः । नद्यः । नद आव्यक्ते शब्द इत्यस्मात्कर्तरि पचाद्यच् । चित इत्यंतोदात्तत्वम् । नदट् (पा ३-१-१३४) इति टित्त्वेन पाठात् टिड्धाणञीति ङीप् । यस्येति लोपे उदात्तनिवृत्तिस्वरेण तस्योदात्तत्वम् । जसि यणादेश उदात्तस्वरितयोर्यण इति स्वरितत्वम् । द्वितीयार्थे प्रथमा । अनया व्युत्पत्त्या नद्य इत्याप उच्यंते । तथा च श्रूयते अहावनदता हते तस्मादा नद्यो नाम स्थ ता वो नामानि सिंधवः । अथ ३-१३-१ । इति । समुद्रियः । समुद्राभ्राद्घः (पा ४-४-११८) इति भवार्थे घप्रत्ययः । घस्येयादेशः । तस्यो पदेशिवद्वचनादाद्युदात्तत्वम् । गृभ्णाति । हृग्रहोर्भ इति भत्वम् । विश्रिताः । श्रिञ् सेवायाम् । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । वरीमभिः । वृञ् वरण इत्यस्मादौणादिक ईमनिन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । यद्वा उरुशब्दादि मनिचि दीर्घ आद्युदात्तत्वं च छांदसत्वात् । वृषायते । कर्तुः क्यङ् सलो पश्च (पा ३-१-११) इत्याचारार्थे क्यङ् । ङित्त्वादात्मनेपदम् । आकृत्सार्वधातुकयोरिति दीर्घः । युध्मः । युध संप्रहार इत्यस्मादिषियुधींधिदसिश्याधूसूभ्यो मगिति मक् । पनस्यते । पन स्तुतौ । पननं पनः । तदिच्छति पनस्यति । व्यत्ययेनात्मनेपदं ॥ २ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९