मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५५, ऋक् ८

संहिता

अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा॑ळ्हं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे ।
आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ॥

पदपाठः

अप्र॑ऽक्षितम् । वसु॑ । बि॒भ॒र्षि॒ । हस्त॑योः । अषा॑ळ्हम् । सहः॑ । त॒न्वि॑ । श्रु॒तः । द॒धे॒ ।
आऽवृ॑तासः । अ॒व॒तासः । न । क॒र्तृऽभिः॑ । त॒नूषु॑ । ते॒ । क्रत॑वः । इ॒न्द्र॒ । भूर॑यः ॥

सायणभाष्यम्

हे इंद्र त्वमप्रक्षितं प्रक्षयरहितं वसु धनं हस्तयोर्बिभर्षि । स्तोतृभ्यो दातुं धारयसि । तथा श्रुतः प्रख्यातो भव तन्व्यात्मीये शरीरेऽषाळ्हं शत्रुभिरनभिभूतं सहो बलं दधे । धारयति । त्वदीयास्तनवः कर्तृभिर्वृत्रादेरसुरस्य वधं कुर्वद्भिर्बलकृतैः कर्मभिरावृतास आवृताः । बलकृतानि सर्वाणि कर्माण्येतस्य शरीरमावृत्यावतिष्ठंते । तत्र दृष्टांतः । अवतासो न । अवत इति कूपनाम । यथा कूपा जलोद्धरणाय प्रवृत्तैः प्राणिभिराव्रियंते तद्वत् । यस्मादेवं तस्मात् हे इंद्र ते तव शरीरेषु क्रतवः कर्माणि भूरये बहूनि विद्यंते ॥ अप्रक्षितम् । क्षि क्षय इत्यस्माद्भावे निष्ठा । अण्यदर्थे (पा ६-४-६०) इति पर्युदासाद्दीर्घाभावः । अत एव क्षियो दीर्घादिति निष्ठानत्वाभावः । प्रकृष्टं क्षितं यस्य तत्प्रक्षितम् । न प्रक्षितमप्रक्षितम् । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । बिभर्षि । डुभृञ् धारण पोषणयोः । लटि सिपि शपः श्लुः । भृञामिदित्यभ्यासस्येत्वम् । अषाळ्हम् । षह अभिभव इत्यस्मान्निष्ठायां तकारादौ प्रत्यये तीषसह (पा ७-२-४८) इतीटो विकल्पितत्वात् यस्य विभाषेतीट् प्रतिषेधः । ढत्वधत्वष्टुत्वढलोपेषु सहिवहोरोदवर्णस्ये त्योत्वे प्राप्ते साढ्यै साढ्वा साढेति निगमे (पा ६-३-११३) इति निपातनादात्वम् । यदुक्तं साढेति तृजंतमेतदिति तदुपलक्षणार्थं द्रष्टव्यम् । तन्वि । जसादिषु छंदसि वावचनमिति अच्च घेः (पा ७-३-११९) इत्यत्वौत्वयोरभावे यणादेशः । उदात्त स्वरितयोर्यण इति विभक्तेः स्वरितत्वं उदात्तयणो हल्पूर्वादित्युदात्तत्वं शु छांदसत्वान्न प्रवर्तते ॥ ८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०