मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५७, ऋक् २

संहिता

अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो॑ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः ।
यत्पर्व॑ते॒ न स॒मशी॑त हर्य॒त इन्द्र॑स्य॒ वज्र॒ः श्नथि॑ता हिर॒ण्ययः॑ ॥

पदपाठः

अध॑ । ते॒ । विश्व॑म् । अनु॑ । ह॒ । अ॒स॒त् । इ॒ष्टये॑ । आपः॑ । नि॒म्नाऽइ॑व । सव॑ना । ह॒विष्म॑तः ।
यत् । पर्व॑ते । न । स॒म्ऽअशी॑त । ह॒र्य॒तः । इन्द्र॑स्य । वज्रः॑ । श्नथि॑ता । हि॒र॒ण्ययः॑ ॥

सायणभाष्यम्

अध हानंतरमेव हे इंद्र विश्वं सर्वमिदं जगत्ते तव संबंधिन इष्टये यागायान्वसत् । अन्वभवत् । यद्वा । इष्टये हविरादिभिस्तव प्राप्तय इति योज्यम् । हविष्मतो यजमानस्य सवना सवनानि यज्ञजातानि निम्नेव निम्नानि भूस्थलान्याप इव त्वां संभजंत इति शेषः । हर्यतः शत्रुवधं प्रेप्सत इंद्रस्य । हर्यतिः प्रेप्साकर्मेति यास्कः (नि ७-१७) यद्वा । हर्यतः शोभनः । हिरण्ययो हिरण्मयः श्नथिता शत्रूणां हिंसनशीलो वज्रः पर्वते पर्ववति शिलोच्चये वृत्रे वा यद्यदा न समशीत संसुप्तो नाभवत् । किंतु जागरितः सन्नवधीदित्यर्थः । यदेंद्रेण प्रेरितो वज्रोऽप्रतिहतः सन्वृत्रमवधीत्तदाप्रभृत्येव तं यष्टुं सर्वे यजमानाः प्रावर्तिषतेति भावः ॥ अध । छांदसं धत्वम् । असत् । अस्तेर्लङि बहुलं छंदसीति शपो लुगभावः । इष्टये । यजतेर्भावे क्तिनि वचिस्वपीत्यादिना संप्रसारणम् । व्रश्चादिना षत्वम् । व्यत्ययेनांतोदात्तत्वम् । यद्वा । इष गतावित्यस्ताद्भावे क्तिनि मंत्रे वृषेषेति तस्योदात्तत्वम् । निम्नेव सवना । शेश्छंदसीति शेर्लोपः । समशीत । शीङ् स्वप्ने । लुङि संज्ञापूर्वकस्य विधेरनित्यत्वात् शीङिः सार्वधातुके (पा ७-४-२१) इति गुणाभावः । हर्यतः । हर्य गतिकांत्योः । भृमृदृशीत्यादिनात च्प्रत्ययः । श्नथिता । श्नथ क्नथ क्रथ हिंसार्थाः । ताच्छीलिकस्तृन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ २ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२