मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ५८, ऋक् ८

संहिता

अच्छि॑द्रा सूनो सहसो नो अ॒द्य स्तो॒तृभ्यो॑ मित्रमह॒ः शर्म॑ यच्छ ।
अग्ने॑ गृ॒णन्त॒मंह॑स उरु॒ष्योर्जो॑ नपात्पू॒र्भिराय॑सीभिः ॥

पदपाठः

अच्छि॑द्रा । सू॒नो॒ इति॑ । स॒ह॒सः॒ । नः॒ । अ॒द्य । स्तो॒तृऽभ्यः॑ । मि॒त्र॒ऽम॒हः॒ । शर्म॑ । य॒च्छ॒ ।
अग्ने॑ । गृ॒णन्त॑म् । अंह॑सः । उ॒रु॒ष्य॒ । ऊर्जः॑ । न॒पा॒त् । पूः॒ऽभिः । आय॑सीभिः ॥

सायणभाष्यम्

हे सहसः सूनो बलस्य पुत्र । बलेन हि मथ्यमनोऽग्निर्जायते । मित्रमहोऽनुकूलदीप्तिमन्नग्ने नोऽस्मभ्यं स्तोतृभ्योऽद्यास्मिन्कर्मण्यच्छिद्राच्छेद्यानि शर्म शर्माणि सुखानि यच्छ । देहि । किंच हे ऊर्जो नपात् अन्नस्य पुत्र । भुक्तेनान्नेन जठराग्नेः प्रवर्धनादग्नेरन्न पुत्रत्वम् । एवंविधाग्ने गृणंतं त्वां स्तुवंतमायसीभिर्व्याप्तैः । यद्वा । आयोवद्दृढतरैः । पूर्भिः पालनैरंहसंः पापादुरुष्य । रक्ष । उरुष्यती रक्षाकर्मा (नि ५-२३) इति यास्कः ॥ अच्छिद्रा । शेश्छंदसीति शेर्लोपः । सूनो सहसः । परमपि च्छंदसीति परस्य षष्ठ्यंतस्य पूर्वामंत्रितांगवद्भावे सति पदद्वयसमुदायस्याष्टमिकं सर्वानुदात्तत्वम् । शर्म । सुपां सुलुगिति विभक्तेर्लुक् । ऊर्जो नपात् । न पातयतीति नपात् । नभ्राण्न पादिति नञः प्रकृतिभावः । सुबामंत्रित इति षष्ठ्यंतस्य परांगवद्भावे सति पादादित्वादाष्टमिकनिघाताभावे षाष्ठि कमामंत्रिताद्युदात्तत्वम् । पूर्भिः । पृ पालनपूरणयोरित्यस्मात्संपदादिलक्षणो भावे क्विप् । उत्वदीर्घौ । सावेकाच इति विभक्तेरुदात्तत्वं ॥ ८ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४