मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६१, ऋक् १

संहिता

अ॒स्मा इदु॒ प्र त॒वसे॑ तु॒राय॒ प्रयो॒ न ह॑र्मि॒ स्तोमं॒ माहि॑नाय ।
ऋची॑षमा॒याध्रि॑गव॒ ओह॒मिन्द्रा॑य॒ ब्रह्मा॑णि रा॒तत॑मा ॥

पदपाठः

अ॒स्मै । इत् । ऊं॒ इति॑ । प्र । त॒वसे॑ । तु॒राय॑ । प्रयः॑ । न । ह॒र्मि॒ । स्तोम॑म् । माहि॑नाय ।
ऋची॑षमाय । अध्रि॑ऽगवे । ओह॑म् । इन्द्रा॑य । ब्रह्मा॑णि । रा॒तऽत॑मा ॥

सायणभाष्यम्

अस्मा इदु प्र तवस इति षोडशर्चं चतुर्थं सूक्तम् । नोधस आर्षमैंद्रं त्रैषुभम् । अनुक्रांतं च । अस्मा इदु षोळशेति । अस्य सूक्तस्य नोधा द्रष्टेत्येतद्ब्राह्मणे समाम्नायते । अस्मा इदु प्रतवसे तुरायेति नोधास्त एते प्रातःसवने । ऐ ब्रा ६-१८ । इति ॥ षळ हस्तोत्रियावापवत्सु चतुर्विंशमहाव्रतादिष्वहःसु माध्यंदिने सवने ब्राह्मणाच्छंसिशस्त्रे ब्रह्मणा ते ब्रह्मयुजेत्यस्या आरंभणीयाया ऊर्ध्वमहिनसूक्तसंज्ञॆमेतच्छंसनीयम् । तथा च सूत्रितम् । अस्मा इदु प्र तवसे शासद्वह्निरितीतिरावहीनसूक्ते (आ ७-४) इति । ब्राह्मणं च भवति । त एते प्रातःसवने षळहस्तोत्रियाञ्छस्त्वा माध्यंदिनेऽहीनसूक्तानि शंसंतीति ॥

इदु इति निपातद्वयं पादपूरणे । अथापि पादपूरणाः कमीमिद्वितीतियास्कः । यद्वा । अवधारणार्थम् । तवसे प्रवृद्धाय तुराय त्वरमाणाय । यद्वा । तुर्वित्रे । शत्रूणां हिंसित्रे । माहिनाय गुणैर्महते ऋचीषमाय ऋचासमाय । यादृशी स्तुतिः क्रियते तत्समायेत्यर्थः । अध्रिगवेऽधृतगमनाय । अप्रतिहतगमनायेत्यर्थः । तथा च यास्कः । अधृतगमनकर्मवन्निंद्रोऽप्यध्रिगुरुच्यते (नि ५-११) इति । एवंभूतायास्मा इंद्राय स्तोमं स्तोत्रं प्र हर्मि । प्रहरामि । करोमीत्यर्थः । तत्र दृष्टांतः । प्रयो न । प्रय इत्यन्ननाम । यथा बुभुक्षिताय पुरुषाय कश्चिदन्नं प्रहरति । कीदृशं स्तोमम् । ओहम् । वहनीयम् । प्रापणीयं वा । अत्यंतोत्कृष्टमित्यर्थः । न केवलं स्तोमं किंतर्हि ब्रह्माणि हविर्लक्षणान्यन्नानि । कीदृशानि । राततमा । पूर्वैर्यजमानैरतिशयेन दत्तानि । इंद्रं स्तुत्या हविषा च परिचरेमेति भावः ॥ तुराय । तुर त्वरणे । इगुपधलक्षणः कः । यद्वा । तुर्वी हिंसार्थः । तुर्वतीति तुरः । पचाद्यचि छांदसो वलोपः । हर्मि । हृञ् हरणे । बहुलं छंदसीति शपो लुक् । माहिनाय । मह पूजायामित्यस्मान्महेरिनण् च (उ २-५६) इतीनण्प्रत्ययः । उपधावृद्धिश्च । ऋचीषमाय । ऋचीषम ऋचा समः (नि ६-२३) इति यास्कः । तृतीया तत्कृतेति समासः (पा २-१-३०) तृतीयापूर्वपदप्रकृतिस्वरत्वम् । पैषोदरादित्वादीकारोपजनः । सुषामादित्वात् षत्वम् । केचिदाहुः । ऋच स्तुतावित्यस्मादिगुपधात्किदितीप्रत्ययः । कृदिकारादक्तिन इति ङीष् । ऋची स्तुतिः । तया समः । पूर्ववत् षत्वम् । अस्मिन्मक्षे तृतीयापूर्वपदप्रकृतिस्वरत्वे सति ङीष उदात्तत्वेन भवितव्यम् । तथा च न दृश्यते । तस्मात्स्वरश्चिंतनीयः । यद्वा । दिवोदासादिर्द्रष्टव्यः । अध्रिगवे । अधृतोऽन्येनानिवांतो गौर्गमनं यस्य स तथोक्तः । गोस्त्रियोरुपसर्जनस्य (पा १-२-४८) इति ह्रस्वत्वम् । पृषोदरादित्वादधृतशब्दस्याध्रिभावः । ओहम् । वहतेः कर्मणि घञि छांदसं संप्रसारणम् । यद्वा । तुहिर् दुहिर् उहिर् अर्द न इत्यस्मादोहतेः पूर्ववद्घञ । राततमा । रा दान इत्यस्मान्निष्ठांतादातिशायिनिकस्तमप् । शेश्भंदसीति शेर्लोपः ॥ १ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७