मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६१, ऋक् २

संहिता

अ॒स्मा इदु॒ प्रय॑ इव॒ प्र यं॑सि॒ भरा॑म्याङ्गू॒षं बाधे॑ सुवृ॒क्ति ।
इन्द्रा॑य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयन्त ॥

पदपाठः

अ॒स्मै । इत् । ऊं॒ इति॑ । प्रयः॑ऽइव । प्र । यं॒सि॒ । भरा॑मि । आ॒ङ्गू॒षम् । बाधे॑ । सु॒ऽवृ॒क्ति ।
इन्द्रा॑य । हृ॒दा । मन॑सा । म॒नी॒षा । प्र॒त्नाय॑ । पत्ये॑ । धियः॑ । म॒र्ज॒य॒न्त॒ ॥

सायणभाष्यम्

आस्मा इदु अस्मा एवेंद्राय । प्रय इत्यन्ननाम । प्रय इवान्नमिव प्रयंसि । प्रयच्छामि । तदेव स्पष्वीक्रियते । बाधे शत्रूणां बाधनाय समर्थं सुवृक्ति सुष्ठ्वावर्जकमांगूषं स्तोत्ररूपमाघोषं भरामि । संपादयामि । अन्येऽपि स्तोतारः । प्रत्नाय पुराणाय पत्ये स्वामिन इंद्राय हृदा हृदयेन मनसा तदंतर्वर्तिनांतःकरणेन मनीषा मनीषया तज्जन्येन ज्ञानेन च धियः स्तुतीः कर्माणि वा मर्जयंत । मार्जयंति । संस्कुर्वंति ॥ प्रयंसि । यम उपरम इत्यस्माल्लट पुरुषव्यत्ययः । बहुलं छंदसीति शपो लुक् । आंगूषम् । आंगूषः स्तोम आघोषः (नि ५-११) इति यास्कः । आञ् पूर्वाद्घुषेर्घञि पृषोदरादित्वाद्घो इत्यस्य गू आदेशः । आङो ङकारस्य लोपाभावश्च । थाथादिनोत्तरपदांतोदात्तत्वम् । बाधे । बाधृ विलोडन इत्यस्मात्कृत्यार्थे तवैकेनिति भावे केन्प्रत्ययः । एजंतत्वादव्ययत्वेन सुपो लुक् । मनीषा । सुपां सुलुगिति तृतीयाया डादेशः पत्ये । पतिः समास एव (पा १-४-८) इति घिसंज्ञायाः समासविषयत्वात् घेर्ङितीति गुणाभावे यणादेशः ॥ २ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७