मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६१, ऋक् ३

संहिता

अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्ये॑न ।
मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभि॑ः सू॒रिं वा॑वृ॒धध्यै॑ ॥

पदपाठः

अ॒स्मै । इत् । ऊं॒ इति॑ । त्यम् । उ॒प॒ऽमम् । स्वः॒ऽसाम् । भरा॑मि । आ॒ङ्गू॒षम् । आ॒स्ये॑न ।
मंहि॑ष्ठम् । अच्छो॑क्तिऽभिः । म॒ती॒नाम् । सु॒वृ॒क्तिऽभिः॑ । सू॒रिम् । व॒वृ॒धध्यै॑ ॥

सायणभाष्यम्

अस्मा इदु अस्मा एवेंद्राय त्यं तं प्रसिद्ध मुपममुपमानहेतुभूतं स्वर्षां सुष्ठ्वरणीयस्य धनस्य दातारं सूरिं विपश्चितमिंद्रं ववृधध्यै वर्धयितुं सुवृक्तिभिः सुष्ठ्वावर्जकैः । समर्थैरित्यर्थः । मतीनां स्तुतीनां संबंधिभिरच्छोक्तिभिः स्वच्छैर्वचोभिर्मंहिष्ठमतिशयेन प्तवृद्धमेवंलक्षणमांगूषमाघोषमास्येन मुखेन भरामि । करोमीत्यर्थः ॥ उपमम् । उपमीयतेऽनेनेत्युपमः । घञर्थे कविधानमिति करणे कप्रत्ययः । आतो लोप इट चेत्याकारलोपः । स्वर्षाम् । सुपूर्वादर्तेर्विजंतः स्वर् शब्दः । षणु दाने । जनसनखनक्रमगमो विट् । विड्वनोरनुनासिकस्यादित्यात्वम् । सनोतेरनः (पा ८-३-१०८) इति षत्वम् । भरामि । पादादित्वान्निघाताभावः । अच्छोक्तिभिः । अच्छा उक्तयो येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । मतीनाम् । नामन्यतरस्यामिति नाम उदात्तत्वम् । ववृधद्यै । वृधु वृद्धावित्यस्मादंतर्भावितण्यर्थात्तुमर्थे सेनेनिति कध्यैप्रत्ययः । कित्त्वाद्गुणाभावः । द्विर्भावश्छांदसः । यद्वा । यङ् लुगंतादस्मिन्प्रत्यय आगमानुशासनस्यानित्यत्वाद्रीगाद्यभावः । अन्येषामपि दृश्यत इति सांहितिकमभ्यासस्य दीर्घत्वम् । प्रत्ययाद्युदात्तत्वं ॥ ३ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७