मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६१, ऋक् ४

संहिता

अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे॑व॒ तत्सि॑नाय ।
गिर॑श्च॒ गिर्वा॑हसे सुवृ॒क्तीन्द्रा॑य विश्वमि॒न्वं मेधि॑राय ॥

पदपाठः

अ॒स्मै । इत् । ऊं॒ इति॑ । स्तोम॑म् । सम् । हि॒नो॒मि॒ । रथ॑म् । न । तष्टा॑ऽइव । तत्ऽसि॑नाय ।
गिरः॑ । च॒ । गिर्वा॑हसे । सु॒ऽवृ॒क्ति । इन्द्रा॑य । वि॒श्व॒म्ऽइ॒न्वम् । मेधि॑राय ॥

सायणभाष्यम्

अस्मा एवेंद्राय स्तोमं शस्त्ररूपं स्तोत्रं सं हिनोमि । प्रेरयामि । तत्र दृष्टांतः । तत्सिनाय । सिनमित्यन्ननाम । सिनमन्नं भवति सिनाति भूतानीति यास्कः (नि ५-५) तेन रथेन सिनमन्नं यस्य स तथोक्तः । तस्मै रथस्वामिने तष्टेव तष्टा तक्षको रथनिर्माता रथं न । यथा रथं प्रेरयति तद्वत् । इवेत्येतत्पादपूरणम् । तथा गिर्वाहसे गीर्भिः स्तुतिभिरुह्यमानायेंद्राय गिरश्च शस्त्रसंबंधिनीः केवला ऋचश्च सुवृक्ति शोभनमावर्जनं यथा भवति तथा प्रेरयामि । तथा मेधिराय मेधाविन इंद्राय विश्वमिन्वं विश्वव्यापकं विश्वैर्व्याप्तम् । सर्वोत्कृष्वं हविश्च सं हि नोमित्यनुषंगः ॥ हिनोमि । हि गतौ वृद्धौ च । स्वादित्वात् । श्नुः । तष्टेव । तक्षो त्वक्षू तनूकरणे । ताच्छीलिकस्तृन् । ऊदित्त्वात्पक्ष इडभावः । स्कोः संयोगाद्योरंते चेति ककारलोपः । नित्त्वादाद्युदात्तत्वम् । तत्सिनाय । शिनशब्दः षिञ् बंधन इत्यस्मादिण् षञ् षेङुष्यविभ्यो नक् (उ ३-२) इति नक् प्रत्ययांशः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । गिर्वाहसे । वाहिहाधाञ्भ्यश्चंदसीति वहतेः केवलाद्विहितोऽसु न्प्रत्ययो गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेति वचनात्कारकपूर्वस्यापि भवति पूर्वपदप्रकृतिस्वरत्वं च । णिदित्यनुवृत्तेरुपधावृद्थिः । हलि चेति दीर्घाभावश्छांदसः । विश्वमिन्वम् । इवि व्याप्तौ । विश्वमिन्वति व्याप्नोतीति विश्वमिन्वम् । पचाद्यच् । लुगभावश्छांदसः । यद्वा । खङ् प्रत्ययो बहुलवचनादस्मादपि धातोर्द्रष्टव्यः । मेधिराय । मेधा अस्यास्तीति मेधिरः । मेधारथाभ्यामिरनिरचौ पक्तव्यौ । पा ५-२-१०९-३ । इति मत्वर्थीय इरन् । नित्त्वादाद्युदात्तत्वं ॥ ४ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७