मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६१, ऋक् ५

संहिता

अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा॑या॒र्कं जु॒ह्वा॒३॒॑ सम॑ञ्जे ।
वी॒रं दा॒नौक॑सं व॒न्दध्यै॑ पु॒रां गू॒र्तश्र॑वसं द॒र्माण॑म् ॥

पदपाठः

अ॒स्मै । इत् । ऊं॒ इति॑ । सप्ति॑म्ऽइव । श्र॒व॒स्या । इन्द्रा॑य । अ॒र्कम् । जु॒ह्वा॑ । सम् । अ॒ञ्जे॒ ।
वी॒रम् । दा॒नऽओ॑कसम् । व॒न्दध्यै॑ । पु॒राम् । गू॒र्तऽश्र॑वसम् । द॒र्माण॑म् ॥

सायणभाष्यम्

अस्मा एवेंद्रायार्कं स्तुतिरूपं मंत्रं श्रवस्या श्रवस्ययान्नेच्छया । अन्नलाभायेत्यर्थः । जुह्वाह्वानसाधनेन वागिंद्रयेण समंजे । समक्तं करोमि । एकीकरोमीत्यर्थः । तत्र दृष्टांतः । सप्तिमिव । यथान्नलाभाय गंतुकामः पुमानश्वं रथेनैकीकरोति तद्वत् । एकीकृत्य च वीरं शत्रुक्षेपणकुशलं दानौकसं दानानामेकनिलयं गूर्तश्रवसं प्रशस्यान्नं पुरामसुरपुराणां दर्माणं विदारयितारम् । एवंगुणविशिष्टमिंद्रं वंदध्यै वंदितुं स्तोतुं प्रवृत्तोऽस्मीति शेषः ॥ सप्तिमिव । षप समावाये । समवैति रथेनैकीभवतीति सप्तिरश्वः । वसस्तिप् (उ ४-१७९) इति विधीयमानस्तिप् प्रत्ययो बहुलवचनादस्मादपि धातोर्भवति । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । इवेन समास उक्तः । श्रवस्या । श्रवस् शब्दात्सुप आत्मनः क्यच् । क्यजंताद्धातोर्भावे अ प्रत्ययात् (पा ३-३-१०२) इत्यकारप्रत्ययः । ततष्वाप् । सुपां सुलुगिति तृतीयाया डादेशः । उदात्तनिवृत्तस्वरेण तस्योदात्तत्वम् । अर्कम् । ऋच स्तुतौ । ऋच्यते स्तूयतेऽनेनेत्यर्को मंत्रः । पुंसि संज्ञायां घः प्रायेणेति करणे घप्रत्ययः । चचोः कु घिण्ण्यतोरिति कुत्वम् । लघूपधगुणः । प्रत्ययस्वरः । जुह्वा । बहुलं छंदसीति कृतसंप्रसारणस्य ह्वेञो हुवः हुवःश्लुवच्च (उ २-६०) इति क्विप् । धातोर्दिर्घश्च । धातुस्वरेणांतोदाश्तत्वम् । तृतीयैकवचन उदात्तस्वरितयोर्यण इति स्वरितत्वम् । उदात्तयणो हल्पूर्वादित्यस्य विभक्त्युदात्तत्वस्य नोङ् धात्वोः (पा ६-१-१७५) इति प्रतिषेधः । अंजे । अंजू व्यक्तिम्रक्षणकांतिगतिषु । व्यत्ययेनात्मनेपदम् । वंदध्यै । वदि आभिवादनस्तुत्योः । तुमर्थे सेसेनिति कध्यैप्रत्ययः । गूर्तश्रवसम् । गृ शब्दे । निष्ठायां श्र्युकः कितीतिट् प्रतिषेधः । बहुलं छंदसीत्युत्वम् । हलि चेति दीर्घः । नसत्तनिषत्तेत्यादौ (पा ८-२-६१) निपातनान्निष्ठानत्वाभावः । गूर्तं श्रवो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । दर्माणम् । दृ विदारणे । आन्येभ्योऽपि दृश्यंत इति मनिन् । नेड्वति कृतीतीट्प्रतिषेधः । व्यत्ययेन प्रत्ययाद्युदात्तत्वम् । यद्वा । औणादिको मनिप्रत्ययो द्रष्टवैः ॥ ५ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७