मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६१, ऋक् ७

संहिता

अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वाञ्चार्वन्ना॑ ।
मु॒षा॒यद्विष्णु॑ः पच॒तं सही॑या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता॑ ॥

पदपाठः

अ॒स्य । इत् । ऊं॒ इति॑ । मा॒तुः । सव॑नेषु । स॒द्यः । म॒हः । पि॒तुम् । प॒पि॒ऽवान् । चारु॑ । अन्ना॑ ।
मु॒षा॒यत् । विष्णुः॑ । प॒च॒तम् । सही॑यान् । विध्य॑त् । व॒रा॒हम् । ति॒रः । अद्रि॑म् । अस्ता॑ ॥

सायणभाष्यम्

इदु इत्येतन्निपातद्वयं पादपूरणम् । यद्वावधारणार्थम् । मातुर्वृष्टिद्वारेण सकलस्य जगतो निर्मातुर्महो महतोऽस्य यज्ञस्य सवनेष्ववयवभूतेषु प्रातःसवनादिषु त्रिषु सवनेषु पितुं सोमलक्षणमन्नं सद्यः पपिवान् । यदाग्नौ हूयते तदानीमेव पानं कृतवानित्यर्थः । तथा चार्वन्ना चारूणि शोभनानि धानाकरंभादिहविर्लक्षणान्यन्नानि भक्षितवानिति शेषः । किंच विष्णुः सर्वस्य जगतो व्यापकः पचतं परिपक्वमसुराणां धनं यदस्ति तन्मुषायत् अपहरन् सहीयान् अतिशयेन शत्रूणामभिभविताद्रिमस्ताद्रेर्वजस्य क्षेपकः । एवंभूत इंद्रस्तिरः । सत इति प्राप्तस्य (नि ३-२०) इति यास्कः । तिरः प्राप्तः सन् वराहं मेघं विध्यत् । अताडयत् । यद्वा । विष्णुः सुत्यादिवसात्मको यज्ञः । यज्ञो देवेभ्यो निलाय विष्णुरूपं कृत्वेत्याम्नानात् । स विष्णुः पचतं परिपक्वमसुरधनं यत्तन्मुषायत् । अचूचुरत् । तदनंतरम् । दीक्षोपसदात्मनां दुर्गरूपाणां सप्तानामह्नां परस्तादासीत् अद्रिमस्ता सहीयानिंद्रो दुर्गाण्यतीत्य तिरः प्राप्तः सन् वराहमुत्कृष्टदिवसरूपं तं यज्ञं विध्यत् । तथा च तैत्तिरीयकम् । वराहोऽयं वाममोषः सप्तानां गिरीणां परस्ताद्वित्वं वेद्यमसुराणां बिभर्तीति । स दर्भवुजीलमुद्धृह्य सप्त गिरीन्बित्त्वा तमहन्निति च । तै सं ६-२-४-२, ३ ॥ महः । महतः । अच्छब्दलोपश्छांदसः । यद्वा । मह इत्येतत्पितुविशेणम् । महः प्रशस्तं पितुमित्यर्थः । पपिवान् । पिबतेर्लिटः क्वसुः । वस्वेकाजाद्घसामितीडागमः । आतो लोप इटि चेत्याकारलोपः । प्रत्ययस्वरः । चारु । सुपां सुलुगिति विभक्तेर्लुक् । मुषायत् । मुष स्तेये । घञर्थे कविधानमिति भावे कप्रत्ययः । मुषमात्मन इच्छतिसुप आत्मनः क्यच् । न छंदस्यपुत्रस्येतीत्ववद्दीर्घस्यापि प्रतिषेधे व्यत्ययेन दीर्घः । अस्मात्क्यजंताल्लटः शतृ । आगमानुशासनस्यानित्यत्वान्नुमभावः । द्वितीयपक्षे तुक्यजंताल्लङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । अत्र स्तेयेच्छया तदुत्तरभाविनी क्रिया लक्ष्यते । पचतम् । भृमृदृशीत्यादिना पचतेरतच्प्रत्ययः । चित्त्वादंशोदात्तत्वम् । विध्यत् । व्यध ताडने । लङि दिवातित्वात् श्यन् । तस्य ङित्त्वाद्ग्रहिज्यादिना संप्रसारणम् । श्यनो नित्त्वादाद्युदात्तत्वम् । पादादित्वान्निघाताभावः । वराहम् । वरमुदकमाहारो यस्य । यद्वा । वरमाहरतीति वराहारः सन् पृषोदरादित्वाद्वराह इत्युच्यते । आत्र निरुक्तम् । वराहो मेघो भवति वराहारः । वरमाहारमाहार्षीरिति च ब्राह्मणमिति (नि ५-४) यज्ञपक्षे तु वरं च तदहो वराहः । राजाहःसखिभ्यः (पा ५-४-९१) इति समासांतष्टच् प्रत्ययः । चित्त्वादंतोदात्तत्वम् । अस्ता । असु क्षेपण इत्यस्मात्साधुकारिणि तृन् (पा ३-२-१३५) इडभावश्छांदसः । न लोकाव्ययेति षष्ठीप्रतिषेधः ॥ ७ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८