मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६१, ऋक् ८

संहिता

अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा॑या॒र्कम॑हि॒हत्य॑ ऊवुः ।
परि॒ द्यावा॑पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ॥

पदपाठः

अ॒स्मै । इत् । ऊं॒ इति॑ । ग्नाः । चि॒त् । दे॒वऽप॑त्नीः । इन्द्रा॑य । अ॒र्कम् । अ॒हि॒ऽहत्ये॑ । ऊ॒वु॒रित्यू॑वुः ।
परि॑ । द्यावा॑पृथि॒वी इति॑ । ज॒भ्रे॒ । उ॒र्वी इति॑ । न । अ॒स्य॒ । ते इति॑ । म॒हि॒मान॑म् । परि॑ । स्त॒ इति॑ स्तः ॥

सायणभाष्यम्

अस्मा एवेंद्रायाहिहत्येऽहेर्वृत्रस्य हनने निमित्त भूते सति ग्नाश्चित् गमनस्वभावा अपि स्थिता देवपत्नीर्देवानां पालयित्र्यो गायत्र्याद्या देवता अर्कमर्चनसाधनं स्तोत्रमूवुः । समतन्वत । चक्रुरित्यर्थः । स चेंद्र उर्वी विस्तृते द्यावापृथिवी द्यावापृथिव्यौ परि जभ्रे । स्वतेजसा परिजहार । अतिचक्रामेत्यर्थः ॥ ऊवुः । वेञ् तंतुसंताने । लिट वेञो वयिः (पा २-४-४१) लिटः कित्त्वाद्यजादित्वेन संप्रसारणे क्रियमाणे यकारस्य लिट वयो यः (पा ६-१-३८) इति प्रतिषेधाद्वकारस्य संप्रसारणं परपूर्वत्वं द्विर्वचनादि । वश्चास्यान्यतरस्यां किति (पा ६-१-३९) इति यकारस्य वकारादेशः । जभ्रे । हृञ् हरणे । लिट ञित्त्वात्कर्त्रभिप्राय आत्मनेपदम् । हृग्रहोर्भ इति भत्वम् । उर्वी । उरुशब्धाद्वोतो गुणवचनादिति ङीष् । वा छंदसीति पूर्वसवर्णदीर्घत्वं ॥ ८ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८