अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् ।
स्व॒राळिन्द्रो॒ दम॒ आ वि॒श्वगू॑र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा॑य ॥
अ॒स्य । इत् । ए॒व । प्र । रि॒रि॒चे॒ । म॒हि॒ऽत्वम् । दि॒वः । पृ॒थि॒व्याः । परि॑ । अ॒न्तरि॑क्षात् ।
स्व॒ऽराट् । इन्द्रः॑ । दमे॑ । आ । वि॒श्वऽगू॑र्तः । सु॒ऽअ॒रिः । अम॑त्रः । व॒व॒क्षे॒ । रणा॑य ॥
अस्येदेव । इदिति पादपूरणः । अस्यैवेंद्रस्य महित्वं माहात्म्यं प्ररिरिचे । अतिरिच्यते । अधिकं भवतीत्यर्थः । अत्रोपसर्गो धात्वर्थस्य निवृत्तिमाचष्टे । यथा प्रस्मरणं प्रस्थानमिति । कुतः सकाशात्प्ररिरिच इत्यत आह । दिवो द्युलोकात् पृथिव्या भूलोकात् अंतरिक्षात् द्यावापथिव्योर्मध्ये वर्तमानादंतरिक्षलोकाच्च । पर्युपर्यर्थः । त्रिन्लोकानतीत्योपरि प्ररिरिच इत्यर्थः । दमे दमयितव्ये विषये स्वराट् स्वेनैव तेजसा राजमानो विश्वगूर्तो विश्वस्मिन्सर्वस्मिन्कार्य उद्गूर्णः समर्थः । यद्वा । विश्वं सर्वमायुधं गूर्तमुद्यतं यस्य स तथोक्तः । स्वरिः । शोभनशत्रुकः । शोभने शत्रौ हंतव्ये सति हंता वीर्यवत्तम इति गम्यते । यथाकवारिं दिव्यं शासमिंद्रम् । ऋग्वे ३-४७-५ । इति । अकुत्सितारिमिति हि तस्यार्थः । आमत्रो यद्धादिषु गमनकुशलः । मात्रयेयत्तया रहितो वा । अमत्रोऽमात्रो महान्भवत्यभ्यमितो वेति यास्कः (नि ६-२३) एवं भूत इंद्रो रणायरणं युद्धमा ववक्षे । आवहति । मेघान्प्रापयति । मेघैः परस्परयुद्धं कारयित्वा वृष्टिं चकारेति भावः । यद्वा । युद्धाय स्वकीयान्भटान् गमयति ॥ अस्य । ऊडिदमिति विभक्तेरुदात्तत्वम् । रिरिचे । रिचिर् विरेचने । छंदसि लुङ् लङ् लिट इति वर्तमाने कर्मणि लिट् । पृथिव्याः । उदात्तयण इति विभक्तेरुदात्तत्वम् । स्वराट् राजृदीप्तावित्यस्मात्सत्सूद्विषेति क्विप् । व्रश्चादिना षत्वे जश्त्वम् । दमे । दम उपशम इत्यस्मात्कर्मणि घङि नोदात्तोपदेशस्य मांतस्यानाचमेः (पा ७-३-३४) इति वृद्धिप्रतिषेधः । घञो ञित्त्वादाद्युदात्तत्वम् । विश्वगूर्तः । गृ निगरणे । अस्मानिष्ठायां श्र्युकः कतीतीट्ट्रतिषेधः । बहुलं छंदसीत्युत्वम् । हलि चेति दीर्घः । यद्वा । गूरी उद्यमे । अस्मान्निष्ठा । नसत्तनिषत्तेत्यादौ निपातनान्निष्ठानत्वाभावः । तत्पुरुषपक्षे मरुद्वृधादित्वात्पूर्वपदांतोदात्तत्वम् । बहुव्रीहिपक्षे तु बहुव्रीहौ विश्वं संज्ञायामित्यसंज्ञायामपि पूर्वपदांतोदात्तत्वम् । अमत्रः । अम गत्यादिषु । अमिनक्षियजिबंधीत्यादिनौणादिकोऽत्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वम् । ववक्षे । वहेर्लेट सिब्बहुलं लेटति सिप् । बहुलं छंदसीति शपः श्लुः । ढत्वषत्वकत्वानि । लोपस्त आत्मनेपदेष्विति तलोपः रणाय । क्रियाग्रहणं कर्तव्यमिति कर्मणः । संप्रदानत्वाच्चतुर्थी । यद्वा । गत्यर्थकर्मणि (पा २-३-१२) इति चतुर्थी ॥ ९ ॥