मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६१, ऋक् १०

संहिता

अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द्वज्रे॑ण वृ॒त्रमिन्द्र॑ः ।
गा न व्रा॒णा अ॒वनी॑रमुञ्चद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥

पदपाठः

अ॒स्य । इत् । ए॒व । शव॑सा । शु॒षन्त॑म् । वि । वृ॒श्च॒त् । वज्रे॑ण । वृ॒त्रम् । इन्द्रः॑ ।
गाः । न । व्रा॒णाः । अ॒वनीः॑ । अ॒मु॒ञ्च॒त् । अ॒भि । श्रवः॑ । दा॒वने॑ । सऽचे॑ताः ॥

सायणभाष्यम्

अस्यैवेंद्रस्य शवसा बलेन शुषंतं शुष्यंतं वृत्रमिंद्रो वज्रेण वि वृश्चत् । व्यच्छिनत् । तथा गा न चोरैरपहृता गाव इव व्राणा वृत्रेणावृता आवनी रक्षणहेतुभूता अपोऽमुंचत् । अवर्षित् । तथा दावने हविर्दात्रे यजमानाय सचेतास्तेन यजमानेन समानचित्तः सन् श्रवः कर्मफलभूतमन्नमभ्याभिमुख्येन ददातीति शेषः ॥ शुषंतम् । शुष शोषणे । श्यनि प्राप्ते व्यत्ययेन शः । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे । विकरणस्वर एव शिष्यते । व्राणाः । वृञ् वरणे । कर्मणि लटः शानचि बहुलं छंदसीति यको लुक् । शानचो ङित्त्वाद्गुणाभावे यणादेशः । अवनीः । अवतेः करणेऽर्तिसृध्यधमीत्यादिना (उ २-१०३) अनिप्रत्ययः । प्रत्ययाद्युदात्तत्वम् । दावने । आतो मनिन्निति वनिप् । चतुर्थ्येकवचनेऽल्लोपाभावश्छांदसः ॥ १० ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८