मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६१, ऋक् ११

संहिता

अ॒स्येदु॑ त्वे॒षसा॑ रन्त॒ सिन्ध॑व॒ः परि॒ यद्वज्रे॑ण सी॒मय॑च्छत् ।
ई॒शा॒न॒कृद्दा॒शुषे॑ दश॒स्यन्तु॒र्वीत॑ये गा॒धं तु॒र्वणि॑ः कः ॥

पदपाठः

अ॒स्य । इत् । ऊं॒ इति॑ । त्वे॒षसा॑ । र॒न्त॒ । सिन्ध॑वः । परि॑ । यत् । वज्रे॑ण । सी॒म् । अय॑च्छत् ।
ई॒शा॒न॒ऽकृत् । दा॒शुषे॑ । द॒श॒स्यन् । तु॒र्वीत॑ये । गा॒धम् । तु॒र्वणिः॑ । क॒रिति॑ कः ॥

सायणभाष्यम्

अस्यैवेंद्रस्य त्वेषसा दीप्तेन बलेन सिंधवः समुद्राः । यद्वा । गंगाद्याः सप्त नद्यो रंत । स्वे स्वे स्थाने रमंते । यद्यस्मादयमिंद्रो वज्रेण सीमेनान्सिंधून्वज्रेण पर्ययच्छत् । परितो नियमितवान् । आपि च ईशानाकृत् वृत्रादिशत्रुवधेनात्मानमैश्वर्यवंतं कुर्वन्निंद्रो दाशुषे हविर्दत्तवते यजमानाय फलं दशस्यस् प्रयच्छन् तुर्वणिस्तूर्णसंभजनः । तुर्वणिस्तूर्णवनिरिति यास्कः (नि ६-१४) यद्वा । तुर्विता शत्रूणां हिंसिता । एवंभूत इंद्रस्तुर्वीतय एतत्संज्ञायोदके निमग्नाय ऋषये गाधमवस्थानयोग्यं धिष्ण्यप्रदेशं कः । अकार्षीत् ॥ रंत । रमु क्रीडायाम् । छांदसे । लङि बहुवचने बहुलं छंदसीति शपो लुक् । धातोरंत्यलोपश्छांदसः । अयच्छत् । यम उपरमे । इषुगमियमां छ इति छत्वम् । कः । करोतेर्लुङि मंत्रे घसह्वरणशेत्यादिना (पा २-४-८०) च्लेर्लुक् । गुणः । हल् ङ्यादिना तलोपः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ ११ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९