मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६१, ऋक् १२

संहिता

अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा॑नः किये॒धाः ।
गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां॑स्य॒पां च॒रध्यै॑ ॥

पदपाठः

अ॒स्मै । इत् । ऊं॒ इति॑ । प्र । भ॒र॒ । तूतु॑जानः । वृ॒त्राय॑ । वज्र॑म् । ईशा॑नः । कि॒ये॒धाः ।
गोः । न । पर्व॑ । वि । र॒द॒ । ति॒र॒श्चा । इष्य॑न् । अर्णां॑सि । अ॒पाम् । च॒रध्यै॑ ॥

सायणभाष्यम्

तूतुजान इति क्षिप्रनाम । तूतुजानस्त्वरमाणः । यद्वा । शत्रून्हिंसन् । ईशान ईश्वरः सर्वेषां कियेधाः कियतोऽनवधृतपरिमाणस्य बलस्य धाता । यद्वा । क्रममाणं शत्रुबलं दधात्यवस्थापयतीति क्रियेधाः । हे इंद्र एवंभूतस्त्वमस्मै वृत्राय वज्रं प्रभर । इमं वृत्रं वज्रेण प्रहरेत्यर्थः । प्रहृत्य चार्णांसि वृष्टिजलानीष्यन् तस्माद्वृत्राद्गमयंस्त्वमपां चरध्यै तासामपां चरणाय भूप्रदेशं प्रति गमनाय तस्य वृत्रस्य मेघरूपस्य पर्व पर्वाण्यवयवसंधीन् तिरश्चातिर्यगवस्थितेन वज्रेण वि रद । विलिख । छिंधीत्यर्थः । तत्र दृष्टांतः । गोर्न । यथा मांसस्य विकर्तारो लौकिकाः पुरुषाः पशोरवयवानितस्ततो विभजंति तद्वत् । आत्र निरुक्तम् । अस्मै प्रहर तूर्णं त्वरमाणो व्रत्राय वज्रमीशानः कियेधाः कियद्धा इति वा क्रममाणधा इति वा गोरिव पर्वाणि विरद मेघस्येष्यन्नर्णांस्यपां चरणाय (नि ६-२०) इति ॥ भर । हृग्रहोर्भ इति भत्वम् । द्व्यचोऽतस्तिङ इति सांहितिको दीर्घः । ततूजानः । तुज हिंसायाम् । कानचि तुजादीनां दीर्घोऽभ्यासस्येत्यभ्यासस्य दीर्घत्वम् । छंदस्युभयथेति कानचः सार्वधातुकत्वे सत्यभ्यस्तानामादिरित्याद्युदात्तत्वम् । कियेधाः । तुजता कियेधा इत्यत्रोक्तम् । रद । रद विलेखने । तिङ्ङतिङ इति निघातः । तिरश्चा । तिरोऽंचतीति तिर्यङ् । ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोपः । तृतीयैकवचने भसंज्ञायामच इत्यकारलोपः । श्चुत्वेन सकारस्य शकारः । उदात्त निवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । इष्यन् । इष गतावित्यस्मादंतर्भावितण्यर्थाच्छतरि दिवादिभ्यः श्यन् । तस्य नित्त्वादाद्युदात्तत्वम् । चरध्यै । तुमर्थे सेसेनिति चरतेरध्यैप्रत्ययः ॥ १२ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९