मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६३, ऋक् ४

संहिता

त्वं ह॒ त्यदि॑न्द्र चोदी॒ः सखा॑ वृ॒त्रं यद्व॑ज्रिन्वृषकर्मन्नु॒भ्नाः ।
यद्ध॑ शूर वृषमणः परा॒चैर्वि दस्यूँ॒र्योना॒वकृ॑तो वृथा॒षाट् ॥

पदपाठः

त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । चो॒दीः॒ । सखा॑ । वृ॒त्रम् । यत् । व॒ज्रि॒न् । वृ॒ष॒ऽक॒र्म॒न् । उ॒भ्नाः ।
यत् । ह॒ । शू॒र॒ । वृ॒ष॒ऽम॒नः॒ । प॒रा॒चैः । वि । दस्यू॑न् । योनौ॑ । अकृ॑तः । वृ॒था॒षाट् ॥

सायणभाष्यम्

हे इंद्र त्वं ह त्वं खलु सखा कुत्सस्य सहायः सन् त्यत्तत्प्रसिद्धं धनं जयलक्षणं यशो वा चोदीः । प्रेरितवान् । अकार्षीरित्यर्थः । हे वृषकर्मन् वृष्व्युदकसेचनरूपकर्मोपेत वज्रिन् वज्रवन्निंद्र वृत्रं सर्वस्य धनस्यावरीतारं कुत्सस्य शत्रुं यद्यदोभ्नाः अतुभ्नाः अहिंसीः । अपि च हे शूर शत्रूणां प्रेरक वृषमणः कामाभिवर्षकमनस्केंद्र वृथाषाट् । अनायासेन शत्रूणामभिभविता त्वं यद्ध यदा खलु योनौ वीरैर्मिश्रणीये संग्रामे दस्यून्कुत्सस्योपक्षयितृनन्यान् शत्रून्पराचैः परागमनैर्व्यकृतः पराङ्मुखा यथा भवंति तथा व्यच्छिनः । तदानीं कुत्सः सर्वं यशः प्राप्नोदित्यर्थः ॥ चोदीः । चुद प्रेरणे । लुङि नेटेति सिचि वृद्धिप्रतिषेधः । उभ्नाः । णभ तुभ हिंसायाम् । क्रैयादिकः । लङि सिपि तलोपश्छांदसः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । पराचैरित्येतदव्ययम् । नीचैरुच्चैरितिवदिति भट्टभास्करमिश्रः । पराचैः परांचनैरिति निरुक्तम् । नि ११-२५ । दस्यून् । दीर्घादटसमानपाद इति नकारस्य रुत्वम् । अत्रानुनासिकः पूर्वस्य तु वेत्यूकारस्य सानुनासिकता । अकृतः । कृती छेदने । लङि सिपि तुदादित्वाच्छप्रत्ययः । आगमानुशासनस्यानित्यत्वात् शे मुचादीनामिति नुमागमस्याभावः । शस्य ङित्त्वाद्गुणाभावः ॥ ४ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः