मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६३, ऋक् ६

संहिता

त्वां ह॒ त्यदि॒न्द्रार्ण॑सातौ॒ स्व॑र्मीळ्हे॒ नर॑ आ॒जा ह॑वन्ते ।
तव॑ स्वधाव इ॒यमा स॑म॒र्य ऊ॒तिर्वाजे॑ष्वत॒साय्या॑ भूत् ॥

पदपाठः

त्वाम् । ह॒ । त्यत् । इ॒न्द्र॒ । अर्ण॑ऽसातौ । स्वः॑ऽमीळ्हे । नरः॑ । आ॒जा । ह॒व॒न्ते॒ ।
तव॑ । स्व॒धा॒ऽवः । इ॒यम् । आ । स॒ऽम॒र्ये । ऊ॒तिः । वाजे॑षु । अ॒त॒साय्या॑ । भू॒त् ॥

सायणभाष्यम्

हे इंद्र अर्णसातावर्णानां गंतृणां युद्धे प्रवृत्तानां पुरुषाणां सातिर्लाभो यस्मिन् स्वर्मीळ्हे । मीळ्हमिति धननाम । सुष्ठ्वरणीयं धनं यस्मिन् । एवंभूत आजा आजौ संग्रामे त्यत्तं प्रसिद्धं त्वामेव नरो योद्धुकामाः पुरुषाः सहायार्थं हवंते । आह्वयंति । यद्वा । अर्णस उदकस्य सातिर्लाभो यस्पिन्वृत्रादियुद्धे तस्मिन्नित्यर्थः । वृष्टिनिरोधकेन वृत्रेण सहवर्षणार्थं तव यद्युद्धं तत्र स्तोतारस्त्वां प्रोत्साहयंतीति भावः । यस्मादेवं तस्मात् हे स्वधावो हे अन्नवन् बलवन्वेंद्र समर्ये संग्रामे तव संबंधिनीयमूतिस्त्वदीयमिदं रक्षणं आ अस्मदाभिमुख्येन भूत् । भवतु । वाजेषु संग्रामेषु यैषोतिरतसाय्या योद्धृभिः प्राप्तव्या भवति ॥ त्यत् । सुपां सुलुगिति द्वितीयाया लुक् । अर्णसातौ । ऋ गतौ । बहुलवचनादौणादिको नप्रत्ययः । षणु दान इत्यस्माद्भावे क्तिनि जनसनखनामित्यनुनासिकस्यात्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । यद्वा । उदके नुट्च (उ ४-१९६) इत्यर्तेरसुन्प्रत्ययो नुडागमश्च । पीवोपवसनादीनां छंदसि लोपो वक्तव्यः म ६-३-१०९-६ । इति सलोपः । नित्त्वादाद्युदात्तत्वम् । पूर्ववद्बहुव्रीहिस्वरः । स्वर्मीळ्हे । स्वर् शब्दो न्यङ् स्वरौ स्वरिताविति स्वरितः । बहुव्रीहिस्वरेण स एव शिष्यते । आजा । सुपां सुलुगिति सप्तम्या डादेशः । स्वधावः । मतुवसोरुरिति मतुपो रुत्वम् । अतसाय्या । अत सातत्यगमने । औणादिकः साय्यप्रत्ययः । तस्याडागमश्च । आगमानुदात्तत्वे प्रत्ययाद्युदात्तत्वम् । भूत् । छंदसि लुङ् लङ् लिट इति प्रार्थनायां लुङि बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः ॥ ६ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः