मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६४, ऋक् ३

संहिता

युवा॑नो रु॒द्रा अ॒जरा॑ अभो॒ग्घनो॑ वव॒क्षुरध्रि॑गाव॒ः पर्व॑ता इव ।
दृ॒ळ्हा चि॒द्विश्वा॒ भुव॑नानि॒ पार्थि॑वा॒ प्र च्या॑वयन्ति दि॒व्यानि॑ म॒ज्मना॑ ॥

पदपाठः

युवा॑नः । रु॒द्राः । अ॒जराः॑ । अ॒भो॒क्ऽहनः॑ । व॒व॒क्षुः । अध्रि॑ऽगावः । पर्व॑ताःऽइव ।
दृ॒ळ्हा । चि॒त् । विश्वा॑ । भुव॑नानि । पार्थि॑वा । प्र । च्य॒व॒य॒न्ति॒ । दि॒व्यानि॑ । म॒ज्मना॑ ॥

सायणभाष्यम्

युवानस्तरुणा रुद्रा रुद्रपुत्रा अजरा जरारहिता अभोग्घनो ये देवान्हविर्भिर्न भोजयंति तेषां हंतारः अध्रिगावोऽधृतगमनाः परैरनिवारितगतयः पर्वता इव दृढांगाः एवंभूता मरुतो ववक्षुः । स्तोतृणामभिमतं प्रापयितुमिच्छंति । अपि च विश्वा सर्वाणि भुवनानि सद्भावं प्राप्तानि पार्थिवा पृथिव्यां भवानि दिव्यानि दिवि भवानि च वसूनि दृळ्हा चित् दृढान्यपि मज्मना । मज्मनेति बलनाम । मज्मना शोधकेन बलेन प्रच्यावयंति । प्रचालयंति ॥ अभोग्घनः । भोजयंतीति भोजः । न भोजोऽभोजः । तेषां हंतारः । बहुलं छंदसीति हंतेः क्विप् । झयो होऽन्यतरस्याम् (पा ८-४-६२) इति हकारस्य घत्वम् । इन्हन्पूषार्यम्णां शौ (पा ६-४-१२) इति नियमाद्दीर्घाभावः । ववक्षुः । वह प्रापणे । अस्मादिच्छासन्येकाच इतीट्प्रतिषेधः । द्विर्भावः । ढत्वकत्वषत्वानि । सन्यत इतीत्वाभावश्छांदसः । लिट्युस्यमंत्रे (पा ३-१-३५) इति निषेधादाम्प्रत्ययाभावेऽतो लोप इत्यकारलोपः । प्रत्ययस्वरः । पादादित्वान्निघाताभावः ॥ ३ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः