मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६५, ऋक् ६

संहिता

अत्यो॒ नाज्म॒न्त्सर्ग॑प्रतक्त॒ः सिन्धु॒र्न क्षोद॒ः क ईं॑ वराते ॥

पदपाठः

अत्यः॑ । न । अज्म॑न् । सर्ग॑ऽप्रतक्तः । सिन्धुः॑ । न । क्षोदः॑ । कः । ई॒म् । व॒रा॒ते॒ ॥

सायणभाष्यम्

रण्वा रमणीया सर्वेषां हृद्या पुष्टिर्न अभिमतफलानामभिवृद्धिरिवाग्निः सर्वेषां रमणीयः । ऐहिकामुष्मिकसकलव्यवहारस्याग्न्यधीनत्वात् । यद्वा । पुष्टिरिव रण्वा गंतव्यः शब्दनीयः स्तुत्यो वा । यथा पुष्टिः प्राप्यते तद्वदग्नियर्ज्ञेहविर्भिः प्राप्यत इति भावः । पृथ्वी विस्तिर्णा क्षितिर्न भूमिरिवाग्निरपि विस्तीर्णः सर्वेषु भूतेषु जाठररूपेणावस्थानात् । गिरिर्न पर्वत इव भुज्म सर्वेषां भोजयिता । यथा गिरौ विद्यमानं फलमूलादिकमाहृत्य सर्वे भुंजते तद्वदग्नावपि पचंतः सर्वे भुंजते तद्वदग्नावपि पचंतः सर्वे भुंजते । यद्वा । अग्नावाहुतिं हुत्वा यजमानाः सर्गफलं भुंजते । अथवा गिरिर्यथा दुर्भिक्षे सर्वान्प्राणिनो भुनक्ति स्वकीयमूलफलादिदानेन पालयति । तद्वदयमपि पापादनुष्ठातृन्प्रमुंचति । तथा चाम्नायते । अग्निर्मा तस्मादेनसः प्र मुंचत्विति । शंभु सुखकरं क्षोदो न उदकमिव । यथोदकं सुखं करोति तद्वदग्निः सर्वेषां सुखकारीत्यर्थः । अज्मन् । संग्रामनामैतत् । अज्मनि संगामेऽत्यो न सतत गमनशीलो जात्यश्व इव सर्गप्रतक्तः सर्गेण विसर्जनेन प्रगमितः । यथा सादिना प्रेषितो जात्यश्वो हंतव्यसमीपमाशु गच्छति तद्वदग्निरपि स्तोतृभिः प्रेषितः सन् शत्रून्हंतुं शीघ्रं गच्छतीति भावः । अपि च सिंधुर्नक्षोदः । स्यंदनशीलमुदकमिवायमपि शीघ्रगामी । यथा निम्नप्रेदेशाभिमुखो जलप्रवाहो दुर्निर्वारः । तद्वद्दग्धव्याभिमुखोऽग्निरपीत्यर्थः । अतो यस्मादेवं तस्मादीमेनमग्निं को वराते । को वारयेत् । कोऽपि वारयितं न शक्नोतीत्यर्थः ॥ रण्वा । रविर्गत्यर्थः । रण्व्यते प्राप्यत इति रण्वः कृत्यल्युटो बहुलमिति बहुलवचनात्कर्मणि पचाद्यच् । भुज्म । भुज पालनाभ्यवहारयोः । इषियुधींधीति विधीयमानो मक् बहुलवचनादस्मादपि भवति । सुपां सुलुगिति सोर्लुक् । अज्मन् । अज गतिक्षेपणयोः मनिनि वलादावार्धधातुके विकल्प इष्यते । का २-४-५६-२ । इति वचनाद्वीभावाभावः । सुपां सुलुगिति सप्तम्या लुक् । सर्गप्रतक्तः । सृजविसर्ग इत्यस्माद्घञंतः सर्गशब्द आद्युदात्तः । तन्जु गतौ अस्मादंतर्भावितण्यर्थान्निष्ठायां यस्य विभाषेतीट्प्रतिषेधः । अनिदितामिति नलोपः । सर्गेण प्रतक्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । वराते । वृञ् वरणे । अंतर्भावितण्यर्थाल्लेट लेटोऽडाटावित्याडागमः । व्यत्ययेन शप् । वृतोऽन्यत्र (पा ३-४-९४) इत्यैत्वस्य एकल्पितत्वादभावः ॥ ५ ॥ ६ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः