मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७०, ऋक् ४

संहिता

अद्रौ॑ चिदस्मा अ॒न्तर्दु॑रो॒णे वि॒शां न विश्वो॑ अ॒मृतः॑ स्वा॒धीः ॥

पदपाठः

अद्रौ॑ । चि॒त् । अ॒स्मै॒ । अ॒न्तः । दु॒रो॒णे । वि॒शाम् । न । विश्वः॑ । अ॒मृतः॑ । सु॒ऽआ॒धीः ॥

सायणभाष्यम्

योऽग्निरपां गर्भो गर्भवदंतर्वर्ती अपांनपात्संज्ञः । यश्च वनानामरण्यानां गर्भो दावाग्निरूपेण तन्मध्ये वर्तते । यश्च स्थातां स्थावराणां काष्ठादीनां गर्भोऽंतरवस्थाता । चरथां चरणवतां जंगमानां गर्भो जाठररूपेण देहमध्येऽवतिष्ठते । एवंभूतायास्मा अग्नये दुरोणे दुस्तर्यगृहेऽद्रौ चित् पर्वतेऽप्यंतर्मध्ये हविः प्रयच्छंतीति शेषः । सोऽयममृतोऽमरणधर्माग्निः स्वाधीः शोभनकर्मयुक्तः शोभनाध्यानो वा । अस्माकं भवत्विति शेषः । तत्र दृष्टांतः । विश्वो निवेशयिता सुखेनावस्थापयिता राजा विशां न । प्रजानां यथा रक्षणरूपशोभनकर्मयुक्तो भवति तद्वत् ॥ स्थाताम् । तिष्ठतेः क्विपि छांदसस्तुक् । यद्वा । औणादिकस्तुप्रत्ययः । आम्यंत्यलोपश्छांदसः । चरथाम् । शीङ् शपिरुगमि (उ ३-११३) इति विधीयमानोऽथप्रत्ययो बहुलवचनाच्चरेरपि द्रष्टव्यः । आगमानुशासनस्यानित्यत्वादामो नुडभावे सवर्णदीर्घः । विश्वः । विश प्रवेशने । अस्मादंतर्भावितण्यर्थादशिप्रुषीत्यादिना क्वन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ ३ ॥ ४ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४