मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७१, ऋक् ३

संहिता

दध॑न्नृ॒तं ध॒नय॑न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒३॒॑ विभृ॑त्राः ।
अतृ॑ष्यन्तीर॒पसो॑ य॒न्त्यच्छा॑ दे॒वाञ्जन्म॒ प्रय॑सा व॒र्धय॑न्तीः ॥

पदपाठः

दध॑न् । ऋ॒तम् । ध॒नय॑न् । अ॒स्य॒ । धी॒तिम् । आत् । इत् । अ॒र्यः । दि॒धि॒ष्वः॑ । विऽभृ॑त्राः ।
अतृ॑ष्यन्तीः । अ॒पसः॑ । य॒न्ति॒ । अच्छ॑ । दे॒वान् । जन्म॑ । प्रय॑सा । व॒र्धय॑न्तीः ॥

सायणभाष्यम्

ऋतं देवयजनदेशं प्राप्तमग्निमंगिरसो महर्षयो दधन् । गार्हपत्यादिरूपेणाधारयन् । धारयित्वा चास्याग्नेर्धीतिं कर्माग्निहोत्रादिलक्षणं धनयन् । धनमकुर्वन् । यथा पुरुषा धनं संपादयंति तद्वदग्नि देवत्यं कर्मान्वतिष्ठन्नित्यर्थः । आदित् अंगिरसामनुष्ठानानंतरमेवार्योऽर्या धनस्य स्वामिन्यो दिधिष्वस्तेन धनेन दिधिष्वोऽग्नीनां धारणं कुर्वत्यः । कृताग्न्याधाना इत्यर्थः । विभृत्रा आहितानग्नीनग्नि होत्रादिकर्मणि विहरंत्योऽतृष्यंतीर्विषयांतरतृष्टारहिता अत एवापसोऽपसा कर्मणा युक्ता एवंभूता यजमानलक्षणाः प्रजाः प्रयसा हविर्लक्षणेनान्नेन देवानिंद्रादीञ्जन्म जातान्मनुष्यांश्च वर्धयंतीर्वर्धयंत्यः सत्य एनमग्निमच्छाभिमुख्येन यंति । प्राप्नुवंति । परिचरंतीति यावत् ॥ दधन् । दध धारणे । लङि व्यत्ययेन परस्मैपदम् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । धनयन् । धनशब्दात्तत्करोतीति णिच् । इष्ठवण्णौ प्रातिपदिकस्येतिष्ठवद्भावाट्टलोपः । लङि पूर्ववत् । अर्यः । अर्यः स्वामिवैश्ययोः (पा ३-१-१०३) इति निपातितः । लिंगवचनव्यत्ययौ । अर्यः स्वाम्याख्या चेत् (फि १-१८) इत्यंतोदात्तत्वम् । दिधिष्टः डुदाञ् धारणपोषणयोः षो अंतकर्मणीत्याभ्यामंदूदृं भूजंबूकफेलूकर्कंधूदिधिषूः (उ १-९५) इति कूप्रत्ययांतो निपातितः । प्रत्ययस्वरः । उदात्तस्वरितयोर्यण इति जसः स्वरितत्वम् । विभृत्राः । हृञ् हरणे । विपूर्वादस्मादौणादिकः क्त्रप्रत्ययः । हृग्रहोर्भ इति भत्वम् । अतृष्यंतीः । ञितृषा पिपासायाम् । जसि वा छंदसीति पूर्वसवर्णदीर्घस्य विकल्पितत्वात्वूर्वसवर्णदीर्घः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । अपसः । अपस् शब्दादुत्पन्नस्य मत्वर्थीयस्य विनो बहुलं छंदसीति बहुलवचनाल्लुक् (पा ५-२-१२२) विनंतस्य त्रिलिंगत्वेन नब्विषयत्वाभावात्प्रातिपदिकस्वरेणांतोदात्तत्वम् । जन्म । जायंत इति जन्मानो मनुष्याः । अन्येभ्योऽपि दृश्यंत इति मनिन् । सुपां सुलुगिति शसो लुक् ॥ ३ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५