मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७१, ऋक् ७

संहिता

अ॒ग्निं विश्वा॑ अ॒भि पृक्ष॑ः सचन्ते समु॒द्रं न स्र॒वतः॑ स॒प्त य॒ह्वीः ।
न जा॒मिभि॒र्वि चि॑किते॒ वयो॑ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान् ॥

पदपाठः

अ॒ग्निम् । विश्वाः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ । स॒मु॒द्रम् । न । स्र॒वतः॑ । स॒प्त । य॒ह्वीः ।
न । जा॒मिऽभिः॑ । वि । चि॒कि॒ते॒ । वयः॑ । नः॒ । वि॒दाः । दे॒वेषु॑ । प्रऽम॑तिम् । चि॒कि॒त्वान् ॥

सायणभाष्यम्

विश्वाः पृक्षश्चरुपुरोडाशादीनि सर्वाण्यन्नाग्निमंगनादिगुणयुक्त मेनमभि सचंते । अभिमुख्येन समवयंति । प्राप्नुवंति । तत्र दृष्टांतः । स्रवंतः समुद्रं न । यथा स्रवंत्यो नद्यः समुद्रमभिगच्छंति तद्वत् । कीदृश्यो नद्यः । सप्त सप्तसंख्याकाः । इमं मे गंग इत्यस्यामृचि सप्त हि नद्यः प्राधान्येन श्रूयंते । यह्वीः महन्नामैतत् । महत्यः । जमंत्येकस्मिन्पात्रे सह भुंजत इति जामयो ज्ञातयः । तैर्नोऽस्मदीयं वयोऽन्नं न वि चिकिते । न ज्ञायते । तेभ्यो दातुमस्माकमन्नं प्रभूतं नास्तीति भावः । अतो हे अग्ने त्वं देवेषु । दीव्यं तीति देवा धनपतयः । तेषु प्रमतिं प्रकर्षेण मननीयं धनं चिकित्वानवगच्छन्विदाः अस्मभ्यं लंभय । यद्वा । प्रमतिं प्रकृष्टं स्तोत्रं देवेषु विदाः । वेदय ज्ञापय ॥ पृक्षः अन्ननामैतत् । पृची संपर्क इत्यस्मादौणादिकः कर्मणि क्विप् धातोः षुगागमश्च । यद्वा । असुनि सुपां सुलुगिति जसो लुक् । स्रवतः । स्रुगतौ । स्रवणं स्रवः । तत्कुर्वंति । सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्य इति क्विप् । एतदंताद्धातोः क्विप्चेति क्विप् । ह्रस्वस्य पितीति तुक् । क्विबंताद्धातोः सति शिष्टत्वाद्धातुस्वरेणांतोदात्तत्वम् । यह्वीः । पिप्पल्यादिभ्यश्चेति गौरादिषु पठितत्वात्तस्य चाकृतिगणत्वादत्रापि ङीष् (पा ४-१-४१) वा छंदसीति पूर्वसवर्णदीर्घत्वम् । चिकिते । छांदसो वर्तमाने कर्मणि लिट् । विदाः । विद्लृलाभे । अंतर्भावितण्यर्थाल्लेट्याडागमः तुदादित्वाच्छः । आगमानुशासनस्यानित्यत्वान्नमभावः । विकरणस्वरः शिष्यते । यद्वा । विदेर्ज्ञानार्थस्य लेट व्यत्ययेन शः ॥ ७ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६