मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७२, ऋक् २

संहिता

अ॒स्मे व॒त्सं परि॒ षन्तं॒ न वि॑न्दन्नि॒च्छन्तो॒ विश्वे॑ अ॒मृता॒ अमू॑राः ।
श्र॒म॒युवः॑ पद॒व्यो॑ धियं॒धास्त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः ॥

पदपाठः

अ॒स्मे इति॑ । व॒त्सम् । परि॑ । सन्त॑म् । न । वि॒न्द॒न् । इ॒च्छन्तः॑ । विश्वे॑ । अ॒मृताः॑ । अमू॑राः ।
श्र॒म॒ऽयुवः॑ । प॒द॒ऽव्यः॑ । धि॒य॒म्ऽधाः । त॒स्थुः । प॒दे । प॒र॒मे । चारु॑ । अ॒ग्नेः ॥

सायणभाष्यम्

अस्मे अस्माकं वत्सं वत्सवदत्यंतं प्रियम् । यद्वा । वत्सः पुत्रः पश्चादुत्पन्नत्वात् । तद्वदग्निरप्यस्याकं पुत्रः । तथा चाम्नायते । ममैव सन्वह हव्यान्यग्ने । पुत्रः पित्रे लोककृज्जातवेदः । तै ब्रा ३-७-७-१० । इति । परि षंतं परितः । सर्वत्रवर्तमानम् । देवेभ्यो निर्गत्याश्वत्थवेण्वादिषु निलीनं संतमित्यर्थः । एवंविधमग्निमिच्छंतो विश्वेऽमृताः सर्वेऽमरणधर्माणो देवा अमूरा अमूढा मरुतश्च न विंदन् । तमग्निं नालभंत । अलभमानाश्च ते श्रमयुवो हव्यवाहनस्याभावेन हविषामभावात्तज्जन्येन श्रमेण क्लेशेनैकीभूताः तस्याग्नेरन्वेषणाय पदव्यः पादैर्गच्छंतः धियंधा धियामग्नेः शयनासनस्थानादिलक्षणानां कर्मणां धारयितारः । एवंविधा संतश्चारु चारुणि शोभनेऽग्नेः परम उत्तमेऽंत्ये पदे । यत्र ह्यग्निर्निलीनो वर्तते तत्रेत्यर्थः । तस्मिन्पदे तस्थुः । स्थितिवंतः । बहुविधेन प्रयासेनाग्निं ददृशुरित्यर्थः ॥ परि षंतम् । उपसर्गप्रादुर्भ्यामस्तिर्यच् परः (पा ८-३-८७) इति षत्वम् । श्रमयुवः । यु मिश्रणे । श्रमेण यूयंत इति श्रमयुवः । क्विब्वचिप्रच्छीत्यादिना (उ २-५७) विधीयमानौ क्विब्दीर्घावस्मादपि धातोर्भवतः । तन्वादित्वादुवङ् । पदव्यः । वी गत्यादिषु । पादेन वियंति गच्छंतीति पदव्यः । क्विप्चेति क्विप् । धियंधाः । आतोऽनुपसर्गे क इति कः । तत्पुरुषे कृति बहुलमिति बहुलवचनाद्द्वितीयाया अप्यलुक् । तस्थुः । पादादित्वान्निघाताभावः । चारु । सुपां सुलुगिति सप्तम्या लुक् ॥ २ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७