मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७३, ऋक् १

संहिता

र॒यिर्न यः पि॑तृवि॒त्तो व॑यो॒धाः सु॒प्रणी॑तिश्चिकि॒तुषो॒ न शासु॑ः ।
स्यो॒न॒शीरति॑थि॒र्न प्री॑णा॒नो होते॑व॒ सद्म॑ विध॒तो वि ता॑रीत् ॥

पदपाठः

र॒यिः । न । यः । पि॒तृ॒ऽवि॒त्तः । व॒यः॒ऽधाः । सु॒ऽप्रनी॑तिः । चि॒कि॒तुषः॑ । न । शासुः॑ ।
स्यो॒न॒ऽशीः । अति॑थिः । न । प्री॒णा॒नः । होता॑ऽइव । सद्म॑ । वि॒ध॒तः । वि । ता॒री॒त् ॥

सायणभाष्यम्

रयिर्नेति दशर्चं नवमं सूक्तं पराशरस्यार्षं त्रैष्वुभमाग्नेयम् । अनुक्रांतं च । रयिर्नेति ॥ प्रातरनुवाकाश्चिनशस्त्रयोरुक्तो विनियोगः ॥

पितृवित्तः पितुः सकाशाल्लब्थो रयिर्धनमिव योऽग्निर्वयोधा अन्नस्य दाता । यथा पैतृकं धनं विश्रंभेण व्यवह्रियमाणं सदन्नप्रदं भवति तद्वदग्निरपि सर्वेषु यज्ञेषु विश्रंभेण व्यवहृतः सन् अन्नप्रदो भवतीत्यर्थः । चिकितुषो न विदुषो धर्मशास्त्राभिज्ञस्य शासुः । शासनमिव सुप्रणीतिः । सुखेन प्रणेतव्यः । यथा विद्वच्छासनं सर्वेष्वनुष्ठेयेषु तत्तत्संशयनिर्णयाय नीयते तद्वदग्निरपि सर्वेषु यज्ञेषु प्रणीयते । यश्च स्योनशीः सुखप्रदे गार्हपत्यायतनादौ शयानोऽतिथिर्न सुखासन उपवेशितोऽर्घपाद्यादिभिः सत्कृतोऽतिथिरिव प्रीणानो हविर्भिस्तर्पणीयः सोऽग्निर्विधतः परिचरतो यजमानस्य सद्म गृहं वि तारीत् । प्रवर्धयति ददाति वा । तत्र दृष्टांतः । होतेव । होता होमकर्ताध्वर्युस्तत्तत्कर्मकरणेन फलैर्यजमानस्य गृहं यथा वर्धयति तद्वत् ॥ पितृवित्तः । विद्लृ लाभे । कर्मणि निष्ठा । यस्य विभाषेतीट्प्रतिषेधः । विभाषा गमहनविदविशामिति क्वसावस्य धातोरिटो विकल्पितत्वात् तत्रापि विशिसाहचर्यात्तौदादिक एव विदिर्गृह्यत इत्युक्तम् । का ७-२-६८ । वित्तो भोगप्रत्यययोः (पा ८-२-५८) इति निष्ठानत्वाभावो निपातितः । वयोधाः । डुधाञ् धारणपोषणयोः । आतो मनिन्निति विच् । सुप्रणीतिः । प्रणीयत इति प्रणीतिः । कर्मणि क्तिन् । तादौ चेति गतेः प्रकृतिस्वरत्वम् । पुनः सुशब्देन समासे कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणात्कृदुत्तरपदप्रकृतिस्वरत्वम् । चिकितुषः । लिटः क्वसुः । षष्ठ्येकवचने वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । शासुः । शासु अनुशिष्टौ । शृस्वृस्निहीत्यादिना विधीयमान उप्रत्ययो बहुलवचनादस्मादपि द्रष्टव्यः । तत्र निदित्यनुवृत्तेराद्युदात्तत्वम् । स्योनशीः । स्योनमिति सुखनाम । स्योने सुखकरे गार्हपत्यादिस्थाने शेत इति स्योनशीः । क्विप्चेति क्विप् । प्रीणानः । प्रीञ् तर्पणे । कर्मणि शानचि व्यत्ययेन श्ना । विधतः । विध विधाने । विधतिः परिचरणकर्मेति नैरुक्ताः । तुदादित्वाच्छप्रत्ययः । शतुरनुम इति विभक्तेरुदात्तत्वं ॥ १ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९