मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७३, ऋक् ९

संहिता

अर्व॑द्भिरग्ने॒ अर्व॑तो॒ नृभि॒र्नॄन्वी॒रैर्वी॒रान्व॑नुयामा॒ त्वोता॑ः ।
ई॒शा॒नासः॑ पितृवि॒त्तस्य॑ रा॒यो वि सू॒रयः॑ श॒तहि॑मा नो अश्युः ॥

पदपाठः

अर्व॑त्ऽभिः । अ॒ग्ने॒ । अर्व॑तः । नृऽभिः॑ । नॄन् । वी॒रैः । वी॒रान् । व॒नु॒या॒म॒ । त्वाऽऊ॑ताः ।
ई॒शा॒नासः॑ । पि॒तृ॒ऽवि॒त्तस्य॑ । रा॒यः । वि । सू॒रयः॑ । श॒तऽहि॑माः । नः॒ । अ॒श्युः॒ ॥

सायणभाष्यम्

हे अग्ने त्वोतास्त्वया रक्षिताः संतो वयमर्वद्भिरस्मदीयैरश्वैरर्वतः शत्रुसंबंधिनोऽश्वान्नृभिरस्मदीयैर्भटैर्नृन् शत्रोर्भटान् । वीर्याज्जायंत इति वीराः पुत्राः । तैर्वीरान् शत्रुपुत्रांश्च वनुयाम । हन्याम । वनुष्यतिर्हंतिकर्मानवगतसंस्कारो भवति (नि ५-२) इति यास्कः । पितृवित्तस्य पित्रादिपरंपरया लब्धस्य रायो धनस्येशानासः । स्वामिनः सूरयो विद्वांसो नोऽस्माकं पुत्राः शतहिमाः शतं संवत्सरान् जीवंतः संतो व्यश्युः । विशेषेण भुंजताम् । अस्मदीयानां पुत्राणामारोग्यं दीर्घमायुश्च भवत्वित्यर्थः ॥ त्वोताः त्वयोताः । प्रत्ययोत्तरपदयोश्चेति मपर्यंतस्य त्वादेशः । व्यत्ययेनात्वम् । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वम् । शतहिमाः । अत्र हिमशब्देन तद्वान्हेमंतो लक्ष्यते । ब्राह्मणं च भवति । शतं हिमा इत्याह शतं त्वा हेमंतानि धिषीयेति वावैतदाहेति । शतं हिमाः शतं हेमंतर्तवो येषां ते शतसंवत्सरजीविन इत्यर्थः । अश्युः । अश भोजने । बहुलं छंदसीति विकरणस्य लुक् ॥ ९ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०