मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७५, ऋक् २

संहिता

अथा॑ ते अङ्गिरस्त॒माग्ने॑ वेधस्तम प्रि॒यम् ।
वो॒चेम॒ ब्रह्म॑ सान॒सि ॥

पदपाठः

अथ॑ । ते॒ । अ॒ङ्गि॒रः॒ऽत॒म॒ । अ॒ग्ने॒ । वे॒धः॒ऽत॒म॒ । प्रि॒यम् ।
वो॒चेम॑ । ब्रह्म॑ । सा॒न॒सि ॥

सायणभाष्यम्

हे अंगिरस्तमातिशयेनांगनादिगुणयुक्त । यद्वा । अंगिरसां वरिष्ठम् । वेधस्तम । वेधा इति मेधाविनाम । अतिशयेन मेधाविन्नग्ने । अथानंतरं ते तुभ्यं सानसि संभजनीयं प्रियं प्रीतिकरं ब्रह्म स्तोत्रं वोचेम । वक्तारो भूयास्म ॥ वोचेम । लिङ्याशिष्यङ् । वच उमित्युमागमः । सानसि । वन षण संभक्तौ । सानसिधर्णसीत्यादावसिच् प्रत्ययांतो निपात्यते ॥ २ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३