मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७६, ऋक् ५

संहिता

यथा॒ विप्र॑स्य॒ मनु॑षो ह॒विर्भि॑र्दे॒वाँ अय॑जः क॒विभि॑ः क॒विः सन् ।
ए॒वा हो॑तः सत्यतर॒ त्वम॒द्याग्ने॑ म॒न्द्रया॑ जु॒ह्वा॑ यजस्व ॥

पदपाठः

यथा॑ । विप्र॑स्य । मनु॑षः । ह॒विःऽभिः॑ । दे॒वान् । अय॑जः । क॒विऽभिः॑ । क॒विः । सन् ।
ए॒व । हो॒त॒रिति॑ । स॒त्य॒ऽत॒र॒ । त्वम् । अ॒द्य । अग्ने॑ । म॒न्द्रया॑ । जु॒ह्वा॑ । य॒ज॒स्व॒ ॥

सायणभाष्यम्

एकादशिनस्याग्नेयस्य पशोर्यथा विप्रस्येत्येषा पशुपुरोडाशस्य याज्या । सूत्रितं च प्रदानानामिति खंडे । यथा विप्रस्य मनुषो हविर्भिः प्र कारवो मनना वच्यमानाः (आ ३-७) इति ॥

कविः क्रांतदर्शी सन्कविभिर्मेधाविभिर्ऋत्विग्भिः सह विप्रस्य मेधाविनो मनुषो मनोर्यज्ञे हविर्भिश्चरुपुरोडाशादिभिर्हे अग्ने यथा देवानयजः एवमेव होतर्होमनिष्पादक सत्यतरातिशयेन सत्सु साधो अग्ने त्वमद्यास्मिन्यज्ञे मंद्रया हर्षयित्र्या जुह्वा होमसाधनभूतया स्रुचा यजस्व । देवान्हविर्भिः पूजय ॥ मनुषः । मन ज्ञाने । बहुलमन्यत्रापीति मनेरुसिन्प्रत्ययः ॥ ५ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४