मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७९, ऋक् ७

संहिता

अवा॑ नो अग्न ऊ॒तिभि॑र्गाय॒त्रस्य॒ प्रभ॑र्मणि ।
विश्वा॑सु धी॒षु व॑न्द्य ॥

पदपाठः

अव॑ । नः॒ । अ॒ग्ने॒ । ऊ॒तिऽभिः॑ । गा॒य॒त्रस्य॑ । प्रऽभ॑र्मणि ।
विश्वा॑सु । धी॒षु । व॒न्द्य॒ ॥

सायणभाष्यम्

प्रातरनुवाकस्याग्नेये क्रतौ गायत्रे छंदस्यवा नो अग्न इत्याद्याः षडृचः । सूत्रितं च । अवानो अग्न इति षळग्निमीळेऽग्निं दूतम् (आ ४-१३) इति ॥ अश्विनशस्त्रे चैताः शंसनीयाः प्रातरनुवाकातिदेशात् ॥

विश्वासु धीषु सर्वेषु कर्मसु वंद्य स्तुत्य हे अग्ने गायत्रस्य गायत्र साम्नो गायत्रीच्छंदस्कस्य सूक्तस्य वा प्रभर्मणि प्रभरणे संपादने निमित्तभूते सति सोऽस्मानूतिभिस्त्वदियैः पालनैरव । रक्ष ॥ अव । द्वच्योऽतस्तिङ इति संहितायां दीर्घत्वं ॥ ७ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८