मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८३, ऋक् १

संहिता

अश्वा॑वति प्रथ॒मो गोषु॑ गच्छति सुप्रा॒वीरि॑न्द्र॒ मर्त्य॒स्तवो॒तिभि॑ः ।
तमित्पृ॑णक्षि॒ वसु॑ना॒ भवी॑यसा॒ सिन्धु॒मापो॒ यथा॒भितो॒ विचे॑तसः ॥

पदपाठः

अश्व॑ऽवति । प्र॒थ॒मः । गोषु॑ । ग॒च्छ॒ति॒ । सु॒प्र॒ऽअ॒वीः । इ॒न्द्र॒ । मर्त्यः॑ । तव॑ । ऊ॒तिऽभिः॑ ।
तम् । इत् । पृ॒ण॒क्षि॒ । वसु॑ना । भवी॑यसा । सिन्धु॑म् । आपः॑ । यथा॑ । अ॒भितः॑ । विऽचे॑तसः ॥

सायणभाष्यम्

अश्वावतीति षडृचं दशमं सूक्तं गोतमस्यार्षमैंद्रं जागतं । तथा चानुक्रांतं । अश्वावति जागतमिति । अतिरात्रे तृतियो पर्याये ब्राह्मणाच्छंसिशस्त्र इदं सूक्तं । सूत्रितं च । अश्वावति प्रोग्रां पीतिं वृष्ण इयर्मि सत्यामिति याज्या । आ ६-४ । इति ॥

हे इंद्र यो मर्त्यो मनुष्यस्तवोतिभिस्त्वदीयै रक्षणैः सुप्रावीः सुष्ठु प्ररक्षितो भवति स मर्त्योऽश्वावति बहुभिरश्वैर्युक्ते गृहे वर्तमानो गोषु प्राप्तव्येषु प्रथमो गच्छति । सर्वेभ्यो यजमानेभ्यः पूर्वमेव गोमान् भवतीत्यर्थः । त्वं तमित् तमेव पुरुषं भवीयसा बहुतरेण भवितृतमेन वा शतसहस्रादिसंख्यायुक्तेन वसुना धनेन पृणक्षि । संपृक्तं संपूर्ण करोषि । तत्र दृष्टांतः । विचेतसो विशिष्टज्ञानहेतुभूता आपो यथाभितः सर्वासु दिक्षु सिंधुं समुद्रं पूरयंति तद्वत् ॥ अश्वावति । मंत्रे सोमाश्वेति मतौ दीर्घत्वं । सुप्रावीः । अवितृस्तृतंत्रिभ्य ईः । उ ३-१५८ । इत्यवतेरीकारप्रत्ययः । ऊतिभिः । ऊतियूतीत्यादिना क्तिन उदात्तत्वं । पृणक्षि । पृची संपर्के । रौधादिकः । भवीयसा । बहुशब्दादीयसुनि बहोर्लॊपो भू च बहोरिति बहुशब्दस्य भूभाव ईयसुन ईकारलोपश्च । अत्र तु च्छांदसत्वादीकारलोपो न क्रियते भूभावश्च क्रियते । अथवा भवितृशब्दात्तुश्छंदसीतीयसुन् । तुरिष्ठेमेयःस्विति तृलोपः ॥ १ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः