मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८३, ऋक् ३

संहिता

अधि॒ द्वयो॑रदधा उ॒क्थ्यं१॒॑ वचो॑ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यतः॑ ।
असं॑यत्तो व्र॒ते ते॑ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ॥

पदपाठः

अधि॑ । द्वयोः॑ । अ॒द॒धाः॒ । उ॒क्थ्य॑म् । वचः॑ । य॒तऽस्रु॑चा । मि॒थु॒ना । या । स॒प॒र्यतः॑ ।
अस॑म्ऽयत्तः । व्र॒ते । ते॒ । क्षे॒ति॒ । पुष्य॑ति । भ॒द्रा । श॒क्तिः । यज॑मानाय । सु॒न्व॒ते ॥

सायणभाष्यम्

प्रवर्ग्याभिष्टवेऽधि द्वयोरित्येषा । स्पृष्ट्वोदकमिति खंडे सूत्रितम् । अधि द्वयोरदधा उक्थ्यं वचः शुक्रं ते अन्यद्यजतं ते अन्यत् (आ ४-६) इति ॥ हविर्धानप्रवर्तनेऽप्येषा । सूत्रितं च । यमे इव यतमाने यदैतमधिद्वयोरदध उक्थ्यं वच इत्यर्धर्च आरमेत् (आ ४-९) इति ॥

हे इंद्र द्वयोर्हविर्धानयोरुक्थ्यम् । उक्थ्यं शस्त्रम् । तद्योग्रं वचो युजे वामित्यादिमंत्ररूपं वचनमध्यदधाः । निहितवानसि । ननु हविर्धानयोर्ध्वयोः कथमेकमेव वचोऽधिनिधीयत इत्याशंक्य ब्राह्मणेनैवं व्याख्यातम् । अधिद्वयोरदधा उक्थ्यं वच इति द्वयोर्ह्येतत्तृतीयं छदिरधिनिधीयत उक्थ्यं वच इति यदाह यज्ञियं वै कर्मोक्थ्यं वचो यज्ञमेवैतेन समर्धयति । ऐ ब्रा १-२९ । इति । तत्र यथा हविर्धानद्वय एकमेव तृतीयं छदिरधिनिधीयते एवं स्तोत्रमप्युभयोरेकं युक्तम् । उक्थं नाम यज्ञ संबंधि शस्त्रं तद्योग्यं वचनमपि यज्ञियं कर्म । तस्य यज्ञ रूपयोर्हविर्धानयोर्यज्ञ त्वसंपादनायाधिनिधानाद्यज्ञोऽपि समृद्धो भवति । कीदृशयोर्हविर्धानयोः । यतस्रुचा । यताः संबद्धाः स्रुचो ग्रहचमसादिलक्षणानि पात्राणि ययोस्ते । मिथुना युगलरूपेण वर्तमाने या ये हविर्धाने त्वां सपर्यतः पूजयतस्तयोरित्यर्थः । किंच ईदृग्रूपहविर्धानयुक्तो यजमानोऽसंयत्तः शत्रुभिः सह युद्धार्थ मनभिगतः सन् ते व्रते त्वदीये कर्मणि क्षेति । निवसति । पुष्यति च । प्रजया पशुभिश्च पुष्टो भवति च । सुन्वते त्वद्देवत्ये यागे सोमाभिषवं कुर्वतो यजमानस्य भद्रा कल्याणिी शक्तिरुत्कृष्वं बलं भवति । एतत्सर्वं हविर्धानयोरुक्थ्यस्य वचसोऽधिनिधानेन त्वया कृतमित्यर्थः ॥ यतस्रुचा । यम उपरमे । निष्ठायामनुदात्तोपदेशेत्यादिनानुनासिकलोपः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । इदमादिषु त्रिषु पदेषु सुपां सुलुगिति विभक्तेराकारः । सपर्यतः । सपर पूजायाम् । कंड्वादिभ्यो यक् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे तस्यैव स्वरः शिप्यते । क्षेति । क्षि निवासगत्योः । बहुलं छंदसीति विकरणस्य लुक् । सुन्वते । षष्ठ्यर्थे चतुर्थी वक्तव्येति चतुर्थी । शतुरनुम इति विभक्तेरुदात्तत्वं ॥ ३ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः