मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् १

संहिता

असा॑वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि ।
आ त्वा॑ पृणक्त्विन्द्रि॒यं रज॒ः सूर्यो॒ न र॒श्मिभि॑ः ॥

पदपाठः

असा॑वि । सोमः॑ । इ॒न्द्र॒ । ते॒ । शवि॑ष्ठ । धृ॒ष्णो॒ इति॑ । आ । ग॒हि॒ ।
आ । त्वा॒ । पृ॒ण॒क्तु॒ । इ॒न्द्रि॒यम् । रजः॑ । सू॒र्यः॑ । न । र॒श्मिऽभिः॑ ॥

सायणभाष्यम्

असावीति विंशत्यृचमेकादशं सूक्तम् । अत्रानुक्रम्यते । असावि विंशतिः षळनुष्टुभ औष्णिहपांक्तगायत्रत्रैष्टुभास्तृचाः प्रगाथ इति । आदितः षडनुष्टुभः सप्तम्याद्यास्तिस्र उष्णिहः । दशम्याद्यास्तिस्रः पंक्तयः । त्रयोदश्याद्यास्तिस्रो गायत्र्यः । षोडशाद्यास्तिस्रस्त्रिष्टुभः । एकोनविंशी बृहती विंशी सतोबृहती । अनुवर्तनाद्गोतम ऋषिः । अनादेशपरिभाषयेंद्रो देवता ॥ सूक्तविनियोगो लिंगादवगंतव्यः ॥ अविहृतषोडशिशस्त्र आद्यौ तृचौ स्तोत्रियानुरूपौ । सूत्रितं च । अथ षोडश्यसावि सोम इंद्र त इति स्तोत्रि यानुरूपौ (आ ६-२) इति ॥ आभिप्लविकेषूक्थ्येषु तृतीयसवनेऽच्छावाकस्येमावेव तृचौवैकल्पिकौ स्तोत्रियानुरूपौ । एह्यू ष्विति खंडे सूत्रितम् । असावि सोम इंद्र त इममिंद्र सुतं पिब (आ ७-८) इति ॥

हे इंद्र ते त्वदर्थं सोम असावि । अभिषुतोऽभूत् । हे शविष्ठातिशयेन बलवन् अत एव धृष्णो शत्रूणआं धर्षयितरिंद्र आ गहि । देवयजनदेशमागच्छ । आगतं त्वामिंद्रियं सोमपानेनोत्पन्नं प्रभूतं सामर्थ्यमा पृणक्तु आपूरयतु । रजोऽंतरिक्षं रश्मिभिः किरणैः सूर्ये न । यथा सूर्यः पूरयति तद्वत् ॥ शविष्ठ । शवस्विञ्शब्दादिष्ठनि विन्मतोर्लुक् । टीरिति टलोपः । पादादित्वान्निघताभावः । गहि गमेर्लोट बहुलं छंदसीति शपो लुक् । अनुदात्तोपदेशेत्यादिनानुनासिकलोपः । तस्यासिद्धवदत्रा भादित्यसिद्धवत्त्वाद्धेर्लुगभावः ॥ १ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः