मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् ५

संहिता

इन्द्रा॑य नू॒नम॑र्चतो॒क्थानि॑ च ब्रवीतन ।
सु॒ता अ॑मत्सु॒रिन्द॑वो॒ ज्येष्ठं॑ नमस्यता॒ सहः॑ ॥

पदपाठः

इन्द्रा॑य । नू॒नम् । अ॒र्च॒त॒ । उ॒क्थानि॑ । च॒ । ब्र॒वी॒त॒न॒ ।
सु॒ताः । अ॒म॒त्सुः॒ । इन्द॑वः । ज्येष्ठ॑म् । न॒म॒स्य॒त॒ । सहः॑ ॥

सायणभाष्यम्

हे ऋत्विज इंद्राय नूनं क्षिप्रमर्चत । पूजनं कुरुत । एतदेव स्पष्टी क्रियते । उक्थास्यप्रगीतमंत्रसाध्यानि स्तोत्राणि च ब्रवीतन । ब्रूत । सुता अभषुता इंदवः सोमाश्चामत्सुः । आगतमेनमिंद्र मश्चं कुर्वंतु । अनंतरं ज्येष्ठं प्रशस्यतमं सहः सहस्विनं बलवंतं तमिंद्रं नमस्यत । नमस्कुरुत ॥ ब्रवीतन । ब्रवीतेर्लोट शस्तसप्तनथनाश्चेति तनबादेशः । अमत्सुः । मदी हर्षे छांदसः प्रार्थनायां लुङ् । आगमानुताननस्यानित्यदिदभावः । नमस्यत । नमोवरिवश्चित्रङ इति क्यङ् । सहः लुगकारेकाररेभाश्च वक्तव्याः । पा ४-४-१२८-२ । इति मत्वर्थीयस्य लुक् ॥ ५ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः