मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८४, ऋक् १५

संहिता

अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य॑म् ।
इ॒त्था च॒न्द्रम॑सो गृ॒हे ॥

पदपाठः

अत्र॑ । अह॑ । गोः । अ॒म॒न्व॒त॒ । नाम॑ । त्वष्टुः॑ । अ॒पी॒च्य॑म् ।
इ॒त्था । च॒न्द्रम॑सः । गृ॒हे ॥

सायणभाष्यम्

अतिमूर्तिनाम्न्येकाहे कर्तव्ये पूर्वमेवैकं मासं सौर्याचांद्रमसीभ्यामिष्टिभ्यां यष्टव्यम् । तत्र पूर्वपक्षे चांद्रमसीष्टिः । अत्राह गोरिति तस्यां प्रधानस्यानुवाक्या । अतिमूर्तिनेति खंडे सूत्रितम् । अत्राह गोरमन्वत नवोनवो भवति जायमानः (आ ९-८) इति ॥

अत्राहास्मिन्नेव गोर्गंतुश्चंद्रमसो गृहे मंडले त्वष्टुर्दीप्तस्यादित्यस्य संबंध्यपीच्यं रात्रावंतर्हितं स्वकीयं यन्नाम तेजस्तदादित्यस्य रश्मय इत्थेत्थमनेन प्रकारेणामन्वत । अजानन् । उदकमये स्वच्छे चंद्रबिंबे सूर्यकिरणाः प्रतिफलंति । तत्र प्रतिफलिताः किरणाः सूर्ये यादृशीं संज्ञां लभंते तादृशीं चंद्रेऽपि वर्तमाना लभंत इत्यर्थः । एतदुक्तं भवति । यद्रात्रावंतर्हितं सौरं तेजस्तच्चंद्रमंडलं प्रविश्याहनीव नैशं तमो निवार्य सर्वं प्रकाशयति । ईदृग्भूततेजसा युक्तः सूर्यश्चेंद्र एव द्वादशस्वादित्येष्टिंद्रस्यापि परिगणितत्वात् । अतोऽहोरात्रयोः प्रकाशक इंद्र एवेतींद्रस्तुतेः प्रतीयमानत्वादिंद्रो देवत्येतदुपपन्नं भवति । ईदृग्भूतस्य तेजस आश्रयत्वेन चंद्रमसः प्राधान्यविवक्षया चांद्रमस्यामिष्टौ विनियोगोऽप्युपपद्यते । अत्र निरुक्तम् । अथाप्यस्यैको रश्मिश्चंद्रमसं प्रतिदीप्यते । तदेतेनोपेक्षिव्यमादित्यतोऽस्य दीप्तिर्भवतीति । सुषुम्णः सूर्यरश्मिश्चंद्रमा गंधर्व इत्यपि निगमो भवति । सोऽपि गौरुच्यते । अत्राह गोरमन्वतेति (नि २-६) अत्र ह गोः सममंसतादित्यरश्मयः स्वं नामापीच्यमपचितमपगतमपिहितमंतर्हितं वा (नि ४-२५) इति ॥ अमन्वत । मनु अवबोधने । अपीच्यम् । अपपूर्वाच्टिनोतेरघ्न्यादयश्च (उ ४-१११) इति निपातनाद्यत् । अत एवाभिमतरूपसिद्धिः । यद्वा । अपिपूर्वादंचतेर्ऋत्विगित्यादिना क्विन् । अनिदितामिति नलोप । अपिगते निगते भवमपीच्यम् । भवे छंदसीति यत् । अच इत्यकारलोपे चाविति दीर्घत्वम् । तित्स्वरितः । अपीच्योऽप्रकाश इति भट्टभास्करमिश्रः । इत्था । इदंशब्धात्था हेतौ च च्छंदसीति प्रकारवचने थाप्रत्ययः । यदि तत्रेदंशब्दो नानुवर्तते तदानीमिदमस्थमुः (पा ५-३-२४) इति थमुप्रत्ययः । अव्ययादाप्सुपः (पा २-४-८२) इति सुब्लुकं बाधित्वा सुपां सुलुगिति डादेशः । चंद्रमसः । चंद्रमाह्लादनं मिमीते निर्मिमीत इति चंद्रमाः । चंद्रे माङोडित् (उ ४-२२७) इत्यसिप्रत्ययः दासीभारादिषु पठितत्वात्पूर्वपदप्रकृतिस्वरत्वम् । पूर्वपदं च स्फायितंचेत्यादिना रक्प्रत्ययांतमंतोदात्तं ॥ १५ ॥

  • अनुवाकः  १३
  • अष्टकः 
  • अध्यायः 
  • वर्गः