मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८५, ऋक् ४

संहिता

वि ये भ्राज॑न्ते॒ सुम॑खास ऋ॒ष्टिभि॑ः प्रच्या॒वय॑न्तो॒ अच्यु॑ता चि॒दोज॑सा ।
म॒नो॒जुवो॒ यन्म॑रुतो॒ रथे॒ष्वा वृष॑व्रातास॒ः पृष॑ती॒रयु॑ग्ध्वम् ॥

पदपाठः

वि । ये । भ्राज॑न्ते । सुऽम॑खासः । ऋ॒ष्टिऽभिः॑ । प्र॒ऽच्य॒वय॑न्तः । अच्यु॑ता । चि॒त् । ओज॑सा ।
म॒नः॒ऽजुवः॑ । यत् । म॒रु॒तः॒ । रथे॑षु । आ । वृष॑ऽव्रातासः । पृष॑तीः । अयु॑ग्ध्वम् ॥

सायणभाष्यम्

सुमखासः शोभनयज्ञा ये मरुत ऋष्टिभिरायुधैर्वि भ्राजंते विशेषेण दीप्यंते ते मरुतोऽच्युता चित् च्यावयितुमशक्यानि दृढानि पर्वतादीन्यप्योजसा स्वकीयेन बलेन प्रच्यावयंतः प्रकर्षेण च्यावयितारः प्रेरयितारो भवंति । उत्तरार्धः प्रत्यक्षकृतः । हे मरुतो मनोजुवो मनोवद्वेगगतयो वृषव्रातासो वृष्ट्युदकसेचनसमर्थसप्तसंघात्मका यूयं रथेष्वात्मीयेषु पृषतीः । पृषत्य इति मरुद्वाहनानां संज्ञा पृषत्यो मरुतामित्युक्तत्वात् । पृषद्भिःश्वेतबिंदुभिर्युक्ता मृगीर्यद्यदायुग्ध्वं आभिमुख्येन नियुक्ता अकृढ्वम् । तदानीं पर्वतादिकं प्रच्यवत इत्यर्थः ॥ सुमखासः । सर्वे विधयश्छंदसि विकल्प्यंत इति नञ्सिभ्यामित्यस्य प्रवृत्त्यभावे बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अच्युता । शेश्छंदसि बहुलमिति शेर्लॊपेः । मनोजुवः । जु इति सौत्रो धातुर्गत्यर्थः क्विब्वचीत्यादिना क्विब्दीर्घौ । अयुग्ध्वम् । युजिर् योगे । लुङि धि च (पा ८-२-२५) इति सकारलोपः ॥ ४ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः