मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८६, ऋक् ४

संहिता

अ॒स्य वी॒रस्य॑ ब॒र्हिषि॑ सु॒तः सोमो॒ दिवि॑ष्टिषु ।
उ॒क्थं मद॑श्च शस्यते ॥

पदपाठः

अ॒स्य । वी॒रस्य॑ । ब॒र्हिषि॑ । सु॒तः । सोमः॑ । दिवि॑ष्टिषु ।
उ॒क्थम् । मदः॑ । च॒ । श॒स्य॒ते॒ ॥

सायणभाष्यम्

दिविष्टिषु यजनीयदिवसेषु बर्हिषि यज्ञे वीरस्य शत्रुक्षेपणकुशलस्यास्य मरुद्गणस्य यागाय सोमः सुतः । ऋत्विग्भिरभिषुतो भवति । उक्थं मरुद्देवताकं शस्त्रं मदश्च मदिधातुना युक्ता मरुतो देवाः सोमस्य मत्सन्नित्यादिका मारुती निविच्चास्य मरुद्गणस्य हर्षाय शस्यते । होत्रा पठ्यते ॥ अस्य । ऊडिदमिति विभक्तेरुदात्तत्वम् । दिविष्विषु । इष्टय एषणानि गमनानि । दिवो द्योतमानस्य सूर्यस्येष्टयो येषु दिवसेषु ते तथोक्ताः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । व्यत्ययेनोत्वाभावः ॥ ४ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११