मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८६, ऋक् ५

संहिता

अ॒स्य श्रो॑ष॒न्त्वा भुवो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि ।
सूरं॑ चित्स॒स्रुषी॒रिषः॑ ॥

पदपाठः

अ॒स्य । श्रो॒ष॒न्तु॒ । आ । भुवः॑ । विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि ।
सूर॑म् । चि॒त् । स॒स्रुषीः॑ । इषः॑ ॥

सायणभाष्यम्

अस्य यजमानस्य स्तुतिं मरुत आ आभिमुख्येन श्रोषंतु । शृण्वंतु । यो मरुद्गणो विश्वाश्चर्षणीः सर्वान् शत्रुभूतान्मनुष्यानभि भुवः अभिभवति । तादृग्गणाकारा मरुतः शृण्वंत्वित्यर्थः । सूरं चित् स्तुतेः प्रेरयितारं यजमानमपीषो मरुद्भिः प्रत्तान्यन्नानि सस्रुषीः प्राप्तानि भवंतु ॥ श्रोषंतु । श्रु श्रवणे । लोट सिब्बहुलं लेटेति बहुलवचनात्सिप् । भुवः । भवतेर्लेट तिपस्तिङां तिङो भवंतीति सिप् । लेटोऽडाटावित्यडागमः । बहुलं छंदसीति शपो लुक् । भूसुवोस्तिङीति गुणप्रतिषेधः । सूरम् । षू प्रेरणे । सुसूधागृधिभ्यः क्रन्निति क्रन्प्रक्ययः । सुस्रुषीः । स्रु गतौ । अस्माल्लिटः क्वसुः । उगितश्चेति ङीप् । भसंज्ञायां वसोः संप्रसारणमिति संप्रसारणम् । शासिवसिघसीनां चेति षत्वम् । जसि वा छंदसीति पूर्वसवर्णदीर्घत्वं ॥ ५ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११