मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ८९, ऋक् १०

संहिता

अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
विश्वे॑ दे॒वा अदि॑ति॒ः पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥

पदपाठः

अदि॑तिः । द्यौः । अदि॑तिः । अ॒न्तरि॑क्षम् । अदि॑तिः । मा॒ता । सः । पि॒ता । सः । पु॒त्रः ।
विश्वे॑ । दे॒वाः । अदि॑तिः । पञ्च॑ । जनाः॑ । अदि॑तिः । जा॒तम् । अदि॑तिः । जनि॑ऽत्वम् ॥

सायणभाष्यम्

अदितिर्द्यौरदितिरित्येषादितिदेवताके पशौ हविषो याज्या । सूत्रितं च । अदितिर्द्यौरदितिरंतरिक्षं न ते विष्णो जायमानो न जातः । अ ३-८ । इति ॥

अदितिरदीनाखंडनीया वा पृथिवी देवमाता वा सैव द्यौर्द्योतनशीलोनाकः । सैवांतरिक्षमंतरा द्यावापृथिव्योर्मध्य ईक्ष्यमाणं व्योम । सैव माता निर्मात्री जगतो जननी । सैव पितोत्पादकः । ततश्च स पुत्रो मातापित्रोर्जातः पुत्रोऽपि सैव । विश्वे देवाः सर्वेऽपि देवा अदितिरेव । पंच जना निषादपंचमाश्चत्वारो वर्णाः । यद्वा । गंधर्वाः पितरो देवा असुरा रक्षांसि । तदुक्तं यास्केन , गंधर्वाः पितरो देवा असुरा रक्षांसीत्येके चत्वारो वर्णा निषादः पंचम इत्यौपमन्यवः (नि ३-७) इति । ब्राह्मणे त्वेवमाम्नातम् । सर्वेषां वा एतत्पंचजनानामुक्थं देवमनुष्याणां गंधर्वाप्सरसां सर्पाणां च पितृणां च । ऐ ब्रा ३-३१ । इति । तत्र गंधर्वाप्सरसामैक्यात्पंचजनत्वम् । एवंविधाः पंच जना अप्यदितिरेव । जातं जननं प्रजानामुत्पत्तिः साप्यदितिरेव । जनित्वं जन्माधिकरणं तदप्यदितिरेव । एवं सकलजगदात्मनादितिः स्तूयते । उक्तं च यास्केन । इत्यदितेर्विभूतिमाचष्टे (नि ४-२३) इति ॥ अदितिः । दो अवखंडने । अस्मात्कर्मणि क्तिनि द्यतिस्यतिमास्थाम् (पा ७-४-४०) इतीत्वम् । यास्कपक्षे तु दीङ् क्षय इत्यस्मात् क्तिनि व्यत्ययेन ह्रस्वत्वम् । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । स पिता । निर्दिश्यमानप्रतिनिर्दिश्यमानयोरेकतामापादयंति सर्वनामानि पर्यायेण तल्लिंगतामुपाददत इत्युद्देश्यलिंगतया पुल्लिंगत्वम् । जनित्वम् । जनेरौणादिकस्त्वन्प्रत्ययः ॥ १० ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६