मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९०, ऋक् २

संहिता

ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो॑भिः ।
व्र॒ता र॑क्षन्ते वि॒श्वाहा॑ ॥

पदपाठः

ते । हि । वस्वः॑ । वस॑वानाः । ते । अप्र॑ऽमूराः । महः॑ऽभिः ।
व्र॒ता । र॒क्ष॒न्ते॒ । वि॒श्वाहा॑ ॥

सायणभाष्यम्

ते हि पूर्वोक्ता मित्रादयो वस्वो वसुनो धनस्य वसवाना वासका आच्छादयितारः । सर्वं जगद्धनेनाच्छादयंतीत्यर्थः । अतस्ते मित्रादयोऽप्रमूरा अप्रमूर्छ्छता अमूढाः प्राज्ञाः संतो महोभिरात्मीयैस्तेजोभिर्विश्वाहा सर्वाण्यहानि । अत्यंतसंयोगे द्वितीया । सर्वेष्टप्यहस्तु व्रता व्रतानि जगन्निर्वाहरूपाणि स्वकीयानि कर्माणि रक्षंते । पालयंति ॥ वस्वः । आगमानुशासनस्यानित्यत्वान्नुमभावे जसादिषु छंदसि वावचनमिति घेर्ङितीति गुणस्व विकल्पनादभावे यणादेशः । वसवानाः । वस अच्छादने । अस्मादंतर्भावितण्यर्थाल्लटः शानच् । बहुलं छंदसीति शपो लुगभावः । वर्णव्यापत्त्या मकारस्य वकारः । अप्रमूराः । मुर्छा मोहसमुच्छ्राययोः । अस्मात्संपदादिलक्षणो भावे क्विप् । राल्लोप इति छकारलोपः । प्रकृष्टा मूः प्रमूः । ततो मत्वर्थीर्यो रः । रो रि (पा ८-३-१४) इति रेफलोपः । न प्रमूरा अप्रमूराः । अव्ययपूर्वपदप्रकृतिस्वरत्वम् । रक्षंते । रक्ष पालने । व्यत्ययेन तङ् ॥ २ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७