मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् ३

संहिता

अर्च॑न्ति॒ नारी॑र॒पसो॒ न वि॒ष्टिभि॑ः समा॒नेन॒ योज॑ने॒ना प॑रा॒वतः॑ ।
इषं॒ वह॑न्तीः सु॒कृते॑ सु॒दान॑वे॒ विश्वेदह॒ यज॑मानाय सुन्व॒ते ॥

पदपाठः

अर्च॑न्ति । नारीः॑ । अ॒पसः॑ । न । वि॒ष्टिऽभिः॑ । स॒मा॒नेन॑ । योज॑नेन । आ । प॒रा॒ऽवतः॑ ।
इष॑म् । वह॑न्तीः । सु॒ऽकृते॑ । सु॒ऽदान॑वे । विश्वा॑ । इत् । अह॑ । यज॑मानाय । सु॒न्व॒ते ॥

सायणभाष्यम्

नारीर्नेत्र्य उषसो विष्टिभिर्निवेशकैः स्वकीयैस्तेजोभिः समानेन योजनेनैकेनैव योजनेनोद्योगेन परावत आ दूरदेशादा पश्चिमदिग्भागादर्चंति । नभःप्रदेशं पूजयंति । कृत्स्नं जगद्युगपदेव व्याप्नुवंतीत्यर्थः । तत्र दृष्टांतः । अपसो न । युद्धकर्मणोपेताः पुरुषा यथा स्वकीयैरायुधैर्धाटीमुखेन सर्वं देशं व्याप्नुवंति तद्वत् । किं कुर्वत्यः । सुकृते शोभनस्य कर्मणः कर्ते सुन्वते सोमाभिषवं कुर्वते सुदानवे कल्याणीर्दक्षिणा ऋत्विग्भ्यो ददते यजमानाय विश्वेदह सर्वमेवेषमन्नं वहंतीरावहंत्यः । प्रयच्छंत्य इत्यर्थः ॥ नारीः नृ नये । ॠदोरप् । नृनरयोर्वृद्धिश्च (पा ४-१-७३) इति शार्ङ्गरवादिषु पाठात् ङीन् । जसि वा छंदसीति पूर्वसवर्णदीर्घत्वम् । अपसः । अपश्शब्दादर्शआदिभ्योऽजित्यच् । सुपां सुलगिति जसः सुः । व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम् । विष्टिभिः । विश प्रवेशने । विशंति प्रविशंतीति विष्टयः किरणाः । क्तिच् क्तौ च संज्ञायामिति क्तिच् । विश्वा । सुपां सुलुगित्यमो डादेशः ॥ ३ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४