मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् ४

संहिता

अधि॒ पेशां॑सि वपते नृ॒तूरि॒वापो॑र्णुते॒ वक्ष॑ उ॒स्रेव॒ बर्ज॑हम् ।
ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृण्व॒ती गावो॒ न व्र॒जं व्यु१॒॑षा आ॑व॒र्तमः॑ ॥

पदपाठः

अधि॑ । पेशां॑सि । व॒प॒ते॒ । नृ॒तूःऽइ॑व । अप॑ । ऊ॒र्णु॒ते॒ । वक्षः॑ । उ॒स्राऽइ॑व । बर्ज॑हम् ।
ज्योतिः॑ । विश्व॑स्मै । भुव॑नाय । कृ॒ण्व॒ती । गावः॑ । न । व्र॒जम् । वि । उ॒षाः । आ॒व॒रित्या॑वः । तमः॑ ॥

सायणभाष्यम्

उषाः पेशांसि जगत्स्वाश्लिष्टानि कृष्णवर्णानि तमांस्यध्याधिक्येन वपते छिनत्ति । तत्र दृष्टांतः । नृतूरिव । नृंस्तूर्वति केशेन रिक्तीकरोतीति नृतूर्नापितः । स यथा केशान्निःशेषेण च्छिनत्ति एवमुषा अप्यंधकारं समूलं हिनस्तीत्यर्थः । यद्वा । नृतूरिव नृत्यंती योषिदिव । पेशांसि । रूपनामैतत् । सर्वैर्दर्शनी यानि रूपाण्युषा अधि वपते । स्मात्मन्यधिकं धारयति । एवं प्रथमतोऽंधकारं स्वकिरणैर्निरस्य वक्षः स्वकीयमुरःप्रदेशमपोर्णुते । तमसानाच्छादितं करोति । स्वयमाविर्भवतीत्यर्थः । बर्जहं पयस उत्पत्तिस्थानं दोहनसमय उस्रा गौर्यथाविष्करोति तद्वत् । किं कुर्वती । गावो न व्रजं यथा गावः स्वकीयं गोष्ठं स्वयमेव शीघ्रं व्याप्नुवंति एवं स्वयमेव प्राचीं दिशं प्राप्य विश्वस्मै भुवनाय सर्वस्मै लोकाय ज्योतिष्कृण्वती । प्रकाशं कुर्वती । एवमुक्तेन प्रकारेणोषास्तमोऽंधकारं व्यावः । विवृतमपश्लिष्टमकरोत् ॥ नृतूरिव । तुर्वीहिंसार्थम् । क्विप्चेति क्विप् । राल्लोप इति वलोपः । र्वोरुपधाया इति दीर्घत्वम् । यद्वा । नृती गात्रविनामे । नृतिशृध्योः कूः (उ १-९३) इति कूप्रत्ययः । बर्जहम् । वृङ् संभक्तौ । वृणीते संभजते गामिति बः पयः । विच् । तज्जहातीति बर्जहः । ओहाङ् त्यागे । खश्प्रकरणे वातशुनीतिलगर्धेष्वजधेट् तुदजहातिभ्य उपसंख्यानम् । पा ३-२-२८-१ । इत्यगर्धशब्दोपपदादपि कृत्यल्युटो बहुलमिति बहुलवचनात् खश् । तस्य सार्वधातुकत्वेन कर्तरि शपि जुहोत्यादित्वात् श्लुः । द्विर्वचनादि । बव योरभेव इति बत्वम् । दिवोदासादित्वात्पूर्वपदाद्युदात्तत्वम् । आवः । वृञ् वरणे । लुङि मंत्रे घसेति च्लेर्लुक् । गुणे हल्ङ्याब्भ्य इति लोपः । छंदस्यपि दृश्यते (पा ६-४-७३) इत्याडागमः ॥ ४ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४