मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९२, ऋक् ६

संहिता

अता॑रिष्म॒ तम॑सस्पा॒रम॒स्योषा उ॒च्छन्ती॑ व॒युना॑ कृणोति ।
श्रि॒ये छन्दो॒ न स्म॑यते विभा॒ती सु॒प्रती॑का सौमन॒साया॑जीगः ॥

पदपाठः

अता॑रिष्म । तम॑सः । पा॒रम् । अ॒स्य । उ॒षाः । उ॒च्छन्ती॑ । व॒युना॑ । कृ॒णो॒ति॒ ।
श्रि॒ये । छन्दः॑ । न । स्म॒य॒ते॒ । वि॒ऽभा॒ती । सु॒ऽप्रती॑का । सौ॒म॒न॒साय॑ । अ॒जी॒ग॒रिति॑ ॥

सायणभाष्यम्

अस्य नैशस्य तमसोऽंधकारस्य पारं समाप्तिप्रदेशमतारिष्म । उत्तीर्णा अभूम । अनंतरमुच्छंती नैशं तमो वर्जयंत्युषा वयुना वयुनानि सर्वेषां प्राणिनां ज्ञानानि कृणोति । निर्मिमीते । श्रिये संपदर्थं छंदो न स्मयते । यथोपच्छंदयिता वशीकरणे समर्थः पुरुष आढ्यसमीपं प्राप्य तत्प्रीत्यर्थं स्मयते हसति एवं विभाती विशिष्टप्रकाशं कुर्वत्युषाः स्वकीयया निर्मलदीप्त्या हसंतीव दृश्यते । एवं सुप्रतीका विशिष्टप्रकाशरूपत्वेन शोभनांगी सती सौमनसाय सर्वेषां सौमनस्यायाजीगः । अंधकारं भक्षितवती ॥ अतारिष्म । तृप्लवनतरणयोः । लुङि सिचि वृद्धिः । तमसः । षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य संहितायां सत्वम् । स्मयते । स्मिङ् ईषद्धसने । भौवादिकः । अजीगः । गृ निगरणे । लङि बहुलं छंदसीति शपः श्लुः । बहुलं छंदसीत्यभ्यासस्येत्वम् । तुजादित्वाद्दीर्घः ॥ ६ ॥‍

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५