मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९३, ऋक् २

संहिता

अग्नी॑षोमा॒ यो अ॒द्य वा॑मि॒दं वचः॑ सप॒र्यति॑ ।
तस्मै॑ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य॑म् ॥

पदपाठः

अग्नी॑षोमा । यः । अ॒द्य । वा॒म् । इ॒दम् । वचः॑ । स॒प॒र्यति॑ ।
तस्मै॑ । ध॒त्त॒म् । सु॒ऽवीर्य॑म् । गवा॑म् । पोष॑म् । सु॒ऽअश्व्य॑म् ॥

सायणभाष्यम्

यदा पौर्णमास्यामग्नि षोमावुपांशुयाजस्य देवता तदानीमग्निषोमा यो अद्येति तस्यानुवाक्या । सूत्रितं चोक्ता देवता इति खंडे । अग्नीषोमा यो अद्य वामान्यं दिवो मातरिश्वा जभार (आ १-६) इति ॥

हे अग्निषोमौ यो यजमानोऽद्यास्मिन्कर्मणि वां युवाभ्यां युष्मदर्थमिदं स्तुतिलक्षणं वचो वाक्यं सपर्यति पूजितं करोति तस्मै यजमानाय गवां पशूनां पोषमभिवृद्धिं धत्त । प्रयच्छतम् । कीदृसं षोषम् । सुवीर्यं शोभनेन वीर्येण सामर्थ्येनोपेतं स्वश्व्यं शोभनैरश्वैर्यक्तं ॥ गवाम् । सावेकाच इति प्राप्तस्य विभक्त्युदात्तत्वस्य न गोश्वन्साववर्णेति प्रतिषेधः ॥ २ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८