मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९३, ऋक् ३

संहिता

अग्नी॑षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा॑द्ध॒विष्कृ॑तिम् ।
स प्र॒जया॑ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ॥

पदपाठः

अग्नी॑षोमा । यः । आऽहु॑तिम् । यः । वा॒म् । दाशा॑त् । ह॒विःऽकृ॑तिम् ।
सः । प्र॒ऽजया॑ । सु॒ऽवीर्य॑म् । विश्व॑म् । आयुः॑ । वि । अ॒श्न॒व॒त् ॥

सायणभाष्यम्

हे अग्नीषोमौ यो यजमान आहुतिमाज्याहुतिं वां युवाभ्यां दाशात् दद्यात् । अथवा हविष्कृतिं हविषा चरुपुरोडाशादिना कृतामाहुतिं यो यजमानो दद्यात् । स यजमानः प्रजया पुत्रपौत्रादिना युक्तं सुवीर्यं शोभनवीर्ययुक्तं विश्वं सर्वमायुर्जीवनं व्यश्नवत् । व्याप्नोतु ॥ आहुतिम् । जुहोतेः क्तिनि तादौ चेति गतेः प्रकृतिस्वरत्वम् । दाशात् । दाशृ दाने । लेट्याडागमः । यद्वृत्तयोगादनिघातः । हविष्कृतिम् । हविषः कृति करणं यस्यामाहुतौ । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । नित्यं समासेऽनुत्तरपदस्थस्येति विसर्जनीयस्यषत्वम् । अश्नवत् । अश्नोतेर्व्यत्ययेन परस्मैपदम् । लेट्यडागमः ॥ ३ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८