मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९३, ऋक् ६

संहिता

आन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रे॑ः ।
अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ॥

पदपाठः

आ । अ॒न्यम् । दि॒वः । मा॒त॒रिश्वा॑ । ज॒भा॒र॒ । अम॑थ्नात् । अ॒न्यम् । परि॑ । श्ये॒नः । अद्रेः॑ ।
अग्नी॑षोमा । ब्रह्म॑णा । व॒वृ॒धा॒ना । उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊं॒ इति॑ । लो॒कम् ॥

सायणभाष्यम्

अग्नीषोमीयस्योपांशुयाजस्यान्यं दिव इत्येषा याज्या । अग्नीषोमा यो अद्य वामित्यत्र सूत्रमुदाहृतं ॥

हे अग्नीषोमौ युवयोर्मध्येऽन्यमेकमग्निं मातरिश्वा वायुर्दिवो द्युलोकादा जभार भृगवे यजमानायाजहार । तथा च मंत्रांतरम् । द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा । ऋग्वे १-६०-१ । इति । श्येनः शंसनीयगतिमान्बक्षी पक्ष्याकारा गायत्र्यन्यं सोममद्रेः परि मेरोरुपर्यवस्थितात्स्वर्गादमथ्नात् । बलादाहृतवती । एवं महानुभावौ युवां ब्रह्मणा स्रष्ट्रा मंत्ररूपेण स्तोत्रेण हविर्लक्षणेनान्नेन वा ववृधाना वर्धमानौ युवां यज्ञायान्येषां देवानां यागायोरुं विस्तीर्णं लोकं स्थानं चक्रथुः । कृतवंतौ । उ इत्येतत्पादपूरणम् । आज्यभागदेवतयोरग्नीषोमयोरुत्तरार्धदक्षिणार्धयोर्हूयते । तन्मध्येऽन्यदेवत्यानि सर्वाणि हवींषि हूयंते । तन्मध्यमं स्थानमग्नीषोमकृतम् । तथा च तैत्तरीयकम् । राजानौ वा एतौ देवानां यदग्निषोमावंतरा देवता इज्येते देवतानां विधृत्या इति ॥ ववृधाना । वृधेर्लिटः कानच् । छांदसमभ्यासस्य दीर्घत्वम् । सुपां सुलुगित्याकारः ॥ ६ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८