मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९३, ऋक् ७

संहिता

अग्नी॑षोमा ह॒विष॒ः प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा॑म् ।
सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ यज॑मानाय॒ शं योः ॥

पदपाठः

अग्नी॑षोमा । ह॒विषः॑ । प्रऽस्थि॑तस्य । वी॒तम् । हर्य॑तम् । वृ॒ष॒णा॒ । जु॒षेथा॑म् ।
सु॒ऽशर्मा॑णा । सु॒ऽअव॑सा । हि । भू॒तम् । अथ॑ । ध॒त्त॒म् । यज॑मानाय । शम् । योः ॥

सायणभाष्यम्

हे अग्निषोमौ प्रस्थितस्य होमार्थमाहवनीयसमीपं प्राप्तं हविष इदं हविर्वीतं भक्षयतम् । तदनंतरं च हर्यतम् । अस्मान्कामयेथाम् । हे वृषणाकामानां वर्षितारौ जुषेथाम् । अस्मदीयं परिचरणं सेवेथाम् । तदनंतरं सुशर्माणा शोभनसुखौ स्ववसा हि शोभनरक्षणौ च भूतम् । अस्माकं भवतम् । अथानंतरं हविर्दत्तवते यजमानाय शं शमनीयानां रोगाणां शमनं योः पृथक्कर्तव्यानां भयानां यावनं पृथक्करणं च धत्तम् । विधत्तम् । कुरुतम् । उक्तं च यास्केन । शमनं च रोगाणां यावनं च भयानाम् (नि ४-२१) इति ॥ हविषः । क्रियाग्रहणं कर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । वीतम् । वी गतिप्रजनकांत्यशनखादनेषु । थसस्तम् । अदादित्वाच्छपो लुक् । वीतं च हर्यतं चेति चार्थप्रतीतेश्चादिलोपे विभाषेति प्रथमायास्तिङ् विभक्तेर्निघातप्रतिषेधः । हर्यतम् । पादादित्वान्निघाताभावः । जुषेथाम् । वृषणेत्यामंत्रितस्यामंत्रितं पूर्वमित्यविद्यमानवत्त्वे सति तिङः परत्वान्निघाताभावः । सुशर्माणा स्ववसा । उभयत्र बहुव्रीहौ सोर्मनसी अलोमोषसी इत्युत्तरपदाद्युदात्तत्वम् । भूतम् । लोट बहुलं छंदसीति शपो लुक् ॥ ७ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९