मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९३, ऋक् ८

संहिता

यो अ॒ग्नीषोमा॑ ह॒विषा॑ सप॒र्याद्दे॑व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ ।
तस्य॑ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना॑य॒ महि॒ शर्म॑ यच्छतम् ॥

पदपाठः

यः । अ॒ग्नीषोमा॑ । ह॒विषा॑ । स॒प॒र्यात् । दे॒व॒द्रीचा॑ । मन॑सा । यः । घृ॒तेन॑ ।
तस्य॑ । व्र॒तम् । र॒क्ष॒त॒म् । पा॒तम् । अंह॑सः । वि॒शे । जना॑य । महि॑ । शर्म॑ । य॒च्छ॒त॒म् ॥

सायणभाष्यम्

यो यजमानोऽग्नीषोमा अग्नीषोमौ देवद्रीचा देवानंचता देवतापरायणेन श्रद्धायुक्तेन मनसांतःकरणेन युक्तः सन् हविषा चरुपुरोडाशादिनासपर्यात् । सपर्यति परिचरति । यश्च यजमानो घृतेनाज्येनाग्नीषोमौ परिचरति । तस्य यजमानस्य व्रतं कर्म रक्षतम् । अंहसः पापात्तं च यजमानं पातम् । रक्षतम् । विशे यागेषु प्रविशते तस्मै जनाय यजमानाय महि महत्प्रभूतं शर्म सुखं यच्छतम् । दत्तं ॥ अग्निषोमा । देवताद्वंद्वे । चेत्युभयपदप्रकृतिस्वरत्वम् । सपर्यात् । सपर पूजायाम् । कंड्वादिः । लेट्याडागमः । देवद्रीचा । सेवानंचतीति सेवद्र्यङ् । अंचतेर्ऋत्विगित्यादिनाक्विन् । अनिदितामिति नलोपः । विषग्देवयोश्च टीरद्र्यंचतावप्रत्यये (पा ६-३-९२) इति देवशब्दस्य टेरद्र्यादेशः । तृतीयैकवचनेऽद्रिसध्र्योरंतोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् । पा ६-३-९५-१ । इति वचनादद्र्यादेशोऽंतोदात्तः । विशे । सावेकाच इति विभक्तरुदात्तत्वं ॥ ८ ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९