मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ९३, ऋक् १०

संहिता

अग्नी॑षोमाव॒नेन॑ वां॒ यो वां॑ घृ॒तेन॒ दाश॑ति ।
तस्मै॑ दीदयतं बृ॒हत् ॥

पदपाठः

अग्नी॑षोमौ । अ॒नेन॑ । वा॒म् । यः । वा॒म् । घृ॒तेन॑ । दाश॑ति ।
तस्मै॑ । दी॒द॒य॒त॒म् । बृ॒हत् ॥

सायणभाष्यम्

हे अग्नीषोमौ वां युवयोः संबंधी यो यजमानोऽनेन घृतेनोत्पवनादिभिः संस्कृतेनाज्येन युक्तं हविर्वां युवाभ्यां दाशति प्रयच्छति तस्मै यजमानाय बृहत्प्रभूतं धनं दीदयतम् । प्रकाशयतम् । प्रयच्चतमित्यर्थः ॥ दाशति । दाशृदाने । शप्तिपोः पित्त्वादनुदात्तत्वे । धातुस्वरः । यद्वृत्तयोगानिघातः । दीदयतम् । दीदयतिर्दीप्तिर्मा ॥ १० ॥

  • अनुवाकः  १४
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९